________________
सूर्यप्रज्ञप्तिवृत्तिः ( मल० )
॥२८८॥
Jain Education Internation
69649
वदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे परतीर्थिकप्रतिपत्ती ते उपदर्शयति – 'तत्थे'त्यादि, तत्र - राहुकर्म्मविषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते, 'तत्थेगे' इत्यादि, तत्र तेषां द्वयानां परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः - ता इति पूर्व वत् अस्ति णमिति वाक्यालङ्कारे स राहुनामा देवो यश्चन्द्रं सूर्य वा गृह्णाति, अत्रोपसंहारमाह - एगे एवमाहंसु, 'एके पुण एवमाहंसु' एके पुनरेवमाहुः, ता इति पूर्ववत्, नास्ति स राहुनामा देवो यश्चन्द्रं सूर्य वा गृह्णाति, तदेवं प्रतिपत्तिद्वयमुपदर्श्य सम्प्रत्येतद्भावनार्थमाह - ' तत्थे' त्यादि, तत्र ये ते वादिनः एवमाहुः - अस्ति स राहुनामा देवो | यश्चन्द्रं सूर्ये वा गृह्णातीति त एवमाहुः-त एवं स्वमतभावनिकां कुर्वन्ति, 'ता राहू ण'मित्यादि, ता इति पूर्ववत् राहुदेंवश्चन्द्रं सूर्य वा गृह्णन् कदाचित् बुभान्तेनैव गृहीत्वा बुभान्तेनैव मुञ्चति, अधोभागे गृहीत्वा अधोभागेनैव मुञ्चतीति भावः, कदाचित् युभान्तेन गृहीत्वा मूर्द्धान्तेन मुञ्चति, अधोभागेन गृहीत्वा उपरितनेन भागेन मुञ्चतीत्यर्थः, अथवा कदाचित् मूर्द्धान्तेन गृहीत्वा बुभ्रान्तेन मुञ्चति, यदिवा मूर्द्धान्तेन गृहीत्वा मूर्द्धान्तेनैव मुवति, भावार्थः प्राग्वद् भावनीयः, अथवा कदाचित् वामभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्चति, किमुक्तं भवति ? - वामपार्श्वेन गृहीत्वा वामपार्श्वेनैव मुञ्चति, यदिवा वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन मुञ्चति, अथवा कदाचित् दक्षिणभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्चति, यद्वा दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुजान्तेनैव मुञ्चति, भावार्थ: सुगमः, 'तत्थ जे ते' इत्यादि, तत्रतेषां द्वयानां परतीर्थिकानां मध्ये ये ते एवमाहुः यथा नास्ति स राहुर्देवो यश्चन्द्रं सूर्यं वा गृह्णातीति ते एवमाहुः, 'तत्थ ण' मित्यादि, तत्र जगति णमिति वाक्यालङ्कारे इमे वक्ष्यमाणस्वरूपाः पञ्चदशभेदाः कृष्णाः पुद्गलाः प्रज्ञप्ताः,
For Personal & Private Use Only
२० प्राभृते | राहुक्रिया
सू १०५
ર૮૮॥
www.jainelibrary.org