SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ काछत्रातिच्छत्रकलितं तुझं-उच्चमत एव 'गगणतलमणुलिहंतसिहरे'त्ति गगनतलं-अम्बरतलमनुलिखत्-अभिलङ्घन्यत् शिखरं यस्य तत् गगनतलानुलिखशिखरं, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तत् जालान्तररत्नं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जरात् उन्मीलितमिव-बहिष्कृतमिव पञ्जरोन्मीलितं, यथा हि किल किमपि वस्तु पञ्जरात्-वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते एवं तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्च भित्त्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रं, तथा अन्तबिहिश्च श्लक्ष्णं मसूणमित्यर्थः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्याः वालुकाया:-सिकतायाः प्रस्तटः-प्रतरो यत्र तत्तथा, तथा सुखस्पर्श शुभस्पर्श वा तथा सश्रीकाणि-सशोभानि रूपाणि-नरयुग्मादीनि यत्र तत् सश्रीकरूपं तथा प्रसादीयंमनःप्रसादहेतुः अत एव दर्शनीयं-द्रष्टुं योग्य, तद्दर्शनेन तृप्तेरसम्भवात् , तथा प्रतिविशिष्टं-असाधारणं रूपं यस्य तत्तथा, 'एवं सूरविमाणेवी'त्यादि, यथा चन्द्रविमानस्वरूपमुक्तमेवं सूर्यविमानं ताराविमानं च वक्तव्यं, प्रायः सर्वे पामपि ज्योतिर्विमानानामेकरूपत्वात् , तथा चोक्तं समवायाङ्गे-"केवइया णं भंते ! जोइसियावासा पण्णत्ता ?, गोयमा ! Pइमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाई जोयणसयाई उडे उप्पइत्ता दसुत्तरजोयण सयबाहले तिरियमसंखेजे जोइसविसए जोइसियाणं देवाणं असंखेजा जोइसियविमाणावासा पन्नत्ता, ते णं जोइसिय-४ २६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy