________________
१६प्राभूत ज्योत्स्नायेकार्थलक्षणे
'ता कहं ते'इत्यादि, ता इति पूर्ववत् कथं ?-केन प्रकारेण भगवन् ! ते-त्वया ज्योत्स्नालक्षणमाख्यातं इति वदेत् ?,
एवं सामान्यतः पृष्टा विवक्षितप्रष्ट व्यार्थप्रकटनाय विशेषप्रश्नं करोति,'ता चंदलेसाई'इत्यादि, ता इति पूर्ववत् , चन्द्रII(ग्रंथ ८०००) लेश्या इति ज्योत्स्ना इति अनयोः पदयोरथवा ज्योत्स्ना इति चन्द्रलेश्या इत्यनयोः पदयोः, इहाक्षरा॥२५६॥ णामानुपूर्वीभेदेनार्थभेदो दृष्टः, यथा वेदो देव इति, पदानामपि चानुपूर्वीभेददर्शनादर्थभेददर्शनं यथा-पुत्रस्य गुरुः
गुरोः पुत्र इति, तत इहापि कदाचिदानुपूर्वीभेदादर्थभेदो भविष्यतीत्याशङ्कावशाच्चन्द्रलेश्या इति ज्योत्स्ना इत्युक्त्वा ज्योत्स्ना इति चन्द्रलेश्या इत्युक्तं, अनयोः पदयोरानुपूर्व्या अनानुपूर्व्या वा व्यवस्थितयोः कोऽर्थः?, किं परस्परं भिन्न उता. भिन्न इति ?, स च किंलक्षणः-किस्वरूपो लक्ष्यते-तदन्यव्यवच्छेदेन ज्ञायते येन तल्लक्षणं-असाधारणं स्वरूप किं लक्षणंअसाधारण स्वरूपं यस्य स तथा, एवं प्रश्ने कृते भगवानाह–ता एगढे एगलक्खणे' इति, ता इति पूर्ववत्, चन्द्रलेश्या इति ज्योत्स्ना इत्यनयोः पदयोरानुपूर्ध्या अनानुपूर्व्या वा व्यवस्थितयोरेक एव-अभिन्न एवार्थः, य एव एकस्य पदस्य वाच्योऽर्थः स एव द्वितीयस्यापि पदस्येति भावः, 'एगलक्खणे' इति एक-अभिन्नमसाधारणस्वरूपं लक्षणं यस्य स तथा, किमुक्तं भवति ?-यदेव चन्द्रलेश्या इत्यनेन पदेन वाच्यस्यासाधारणं स्वरूपं प्रतीयते तदेव ज्योत्स्ना इत्यनेनापि पदेन, यदेव च ज्योत्स्ना इत्यनेन पदेन तदेव चन्द्रलेश्या इत्यनेनापि पदेनेति, एवं आतप इति सूर्यलेश्या
इति यदिवा सूर्यलेश्या इति आतप इति, तथा अन्धकार इति छाया इति अथवा छाया इति अन्धकार इति, तेषु ४ पदेषु विषये प्रश्ननिर्वचनसूत्राणि भावनीयानि ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां पोडशं प्राभृतं समाप्तम् ।।
॥२५६॥
in Education Internet
For Personal & Private Use Only
www.janelibrary.org