SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ -%%%-5-2 ततस्तैश्चतुःपञ्चाशता सहस्रैर्नवभिः शतैरष्टादश शतानि पञ्चत्रिंशदधिकानि गुण्यन्ते, जाता दश कोटयः सप्त लक्षा एकचत्वारिंशत्सहस्राणि पञ्च शतानि १००७४ १५००, अर्द्धमण्डलानि चेह ज्ञातुमिष्टानि तत एकस्य शतसहस्रस्याष्टानवतेश्च शतानामद्धे यानि चतुःपञ्चाशत्सहस्राणि नय शतानि तैर्भागो हियते, लब्धानि अष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानामिति ।सम्प्रति सकलप्राभृतगतमुपसंहारमाह-'इच्चेसा मुहत्तगई इत्यादि,इति-एवमुक्तेन प्रकारेण एषाअनन्तरोदिता मुहूर्तगतिः-प्रतिमुहूर्त चन्द्रसूर्यनक्षत्राणां गतिपरिमाणं तथा ऋक्षादिमासान्-नक्षत्रमासं चन्द्रमासं सूर्यमासमभिवद्धितमासं तथा रात्रिन्दिवं तथा युगं चाधिकृत्य मण्डलपविभक्तिः-मण्डलप्रविभागो वैविक्त्येन मण्डलसङ्ख्याप्ररूपणा | इत्यर्थः तथा शीघ्रगतिरूपं वस्तु आख्यातमित्येतद् ब्रवीमि अहं, इदं च भगवद्धचनमतः सम्यक्त्वेन पूर्वोक्तं श्रद्धेयं ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां पञ्चदशं प्राभृतं समाप्तम् ॥ I तदेयमुक्तं पञ्चदशं प्राभृतं, सम्प्रति षोडशमारभ्यते, तस्य चायमाधिकारो यथा 'कथं ज्योत्स्नालक्षणमाख्यात'मिति । तत एवंरूपमेव प्रश्नसूत्रमाहII ता कहं ते दोसिणालक्खणे आहितेति वदेजा ? ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदले सादी य के अहे किलक्खणे ?, ता एकटे एगलक्खणे, ता सूरलेस्सादी य आयवेइ य आतवेतिय सूरले स्सादी य के अहे किलक्खणे?, ता एगढे एगलक्खणे, ता अंधकारेति य छायाइ य छायाति य अंधकारेति लय के अहे किंलक्खणे , ता एगढे एगलक्खणे ॥ (सूत्रं०८७) सोलसमं पाहुडं समत्तं ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy