SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ स्थापना ८८४ । १८३० । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना चतुरशीत्यधिकाष्टशतप्रमाणेन भागहरण लब्धौ द्वावहोरात्रौ शेषास्तिष्ठति द्वाषष्टिः ६२ ततश्छेद्यच्छेदकराश्योकिनापवर्तना जात | उपरितनो राशिरेकत्रिंशद्रूपोऽधस्तनश्चत्वारि शतानि द्वाचत्वारिंशदधिकानि १५ आगतं एकत्रिंशत् द्विचत्वारिंशदधिकचतुःशतभागाः। 'ता एगमेग'मित्यादि, ता इति पूर्ववत् , एकै मण्डलं सूर्यः कतिभिरहोरात्रैश्चरति !, भगवानाह–'ता दोहिं'इत्यादि, द्वाभ्यामहोरात्राभ्यां चरति, तथाहि-यदि सूर्यस्य मण्डलानां नवभिः शतैः पञ्चदशोत्तरैरष्टादश शतानि त्रिंशदधिकानि अहोरात्राणां लभ्यन्ते तत एकेन मण्डलेन कति अहोरात्रान् लभामहे !, राशित्रयस्थापना-९१५ । १८३० । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना ९१५ भागहरणं लब्धौ द्वावहोरात्राविति । 'ता एगमेग'मित्यादि ता इति पूर्ववत् एकैकमात्मीयं मण्डलं नक्षत्रं कतिभिरहोरात्रैश्चरति?, भग-18 वानाह-'तादोहि'इत्यादि, द्वाभ्यामहोरात्राभ्यां द्वाभ्यां भागाभ्यां हीनाभ्यां त्रिभिः सप्तपष्टैः-सप्तपश्यधिक शतै रात्रिन्दिवं | छित्त्वा, तथाहि-यदि नक्षत्रस्य मण्डलानामष्टादशभिः शतैः पञ्चत्रिंशदधिकैः पत्रिंशच्छतानि पश्याधिकानि रात्रिन्दिवानां लभामहे तत एकेन मण्डलेन किं लभामहे?,राशित्रयस्थापना १८३५। ३६६० । १ । अत्रान्त्येन राशिना मध्यराशेस्ताडनं जातः स तावानेव तस्यायेन राशिना १८३५ भागहरणं लब्धमेकं रात्रिन्दिवं शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि १८२५ ततश्छेद्यच्छेदकराश्योकेिनापवर्तना जात उपरितनो राशिः त्रीणि शतानि पञ्चषष्ट्याधिकानि छेद| राशिस्त्रीणि शतानि सप्तषष्ट्यधिकानि ३६७ । तत आगतं द्वाभ्यां सप्तषष्ट्यधिकत्रिशतभागाभ्यां हीनं द्वितीयं रात्रिन्दि - - - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy