________________
-AA-KARNER
तेन मासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह-'ता पण्णरसे'त्यादि, पञ्चदश मण्डलानि चरति पोडशस्य ४च मण्डलस्य व्यशीतिः चतुरशीत्यधिकशतभागान् , तथाहि-अत्रैवं त्रैराशिक-इह युगेऽभिवर्द्धितमासाः सप्तपञ्चाशत्र
सप्त चाहोरात्रा एकादश मुहूर्तास्त्रयोविंशतिश्च द्वापष्टिभागा मुहूर्त्तस्य, एष च राशिः सांश इति न त्रैराशिककर्मविषयस्ततः परिपूर्णमासप्रतिपत्त्यर्थमयं राशिः षट्पञ्चाशदधिकेन शतेन गुण्यते, जातानि परिपूर्णानि नवाशीतिः शतानि अष्टविंशत्यधिकानि अभिवर्द्धितमासानां, किमुक्तं भवति ?-षट्पञ्चाशदधिकशतसङ्ख्येषु युगेषु एतावन्तः परिपूर्णा अभिबद्धितमासाः लभ्यन्ते, एतच्च द्वादशप्राभृते सूत्रकृतैव साक्षादभिहितं, ततस्त्रैराशिककर्मावतार:-यद्यष्टाविंशत्यधिकैरभिवर्द्धितमासैनवाशीतिशतैः पट्पञ्चाशदधिकशतसङ्ख्ययुगभाविभिश्चन्द्रमण्डलानामेकं लक्षं सप्तत्रिंशत्सहस्राणि नव शतानि चतुरुत्तराणि लभ्यन्ते तत एकेनाभिवर्द्धितमासेन किं लभामहे !, राशित्रयस्थापना-८९२८ । १३७९०४ ॥१॥ अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेस्ताडनाज्जातः स तावानेव तस्यायेन राशिना ८९२८ भागहरणं लब्धानि । पञ्चदश मण्डलानि १५ शेषमुद्धरति एकोनचत्वारिंशत् शतानि चतुरशीत्यधिकानि ३९८४, ततश्छेद्यच्छेदकराश्योरष्टा-14 चत्वारिंशताऽपवर्त्तना जात उपरितनो राशिस्यशीतिरधस्तनः षडशीत्यधिकं शतं आगतं षोडशमण्डलस्य व्यशीतिः पडशीत्यधिकशतभागाः। ता अभिवडिएण'मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह-सोलसे'त्यादि, षोडश। मण्डलानि त्रिभिर्भागैन्यूनानि चरति, मण्डलं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां छित्त्वा, तथाहि-यदि षट्प-| चाशदधिकशतसङ्ख्ययुगभाविभिरष्टाविंशत्यधिकरभिवर्द्धितमासैनवाशीतिशतैः सूर्यमण्डलानामेकं लक्षं द्विचत्वारिंशत्स
ॐR
+R
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org