SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ --- SSSSSSSS - लस्य त्रिंशतमेकषष्टिभागान् , तथाहि-यदि एकषट्या कर्ममासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे ?, राशित्रयस्थापना । ६१।८८४।१। अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्य एकषट्या भागहरणं लब्धानि परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य |च मण्डलस्य त्रिंशदेकपष्टिभागाः । १४ । ३ । 'ता उउमासेण'मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह–'ता| पन्नरसे'त्यादि, पश्चदश परिपूर्णानि मण्डलानि चरति, तथाहि-योकषष्ट्या कर्ममासैनव शतानि पञ्चदशोत्तराणि | सूर्यमण्डलानां लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे ?, राशित्रयस्थापना । ६१ । ९१५ । १। अत्रान्त्येन राशिना मध्यराशिगुण्यते जातः स तावानेव तस्य एकपट्या भागहरणं लब्धानि परिपूर्णानि पञ्चदश मण्डलानि १५,12 'ता उउमासेण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह–'ता पन्नरसे' त्यादि, पञ्चदश मण्डलानि चरति, र पोडशस्य च मण्डलस्य पञ्च द्वाविंशशतभागान् , तथाहि-यदि द्वाविंशेन कर्ममासशतेनाप्टादश शतानि पञ्चत्रिंशदधिकानि मण्डलानां नक्षत्रस्य लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे ?, राशित्रयस्थापना १२२ । १८३५ । १ ।। अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना द्वाविंशत्यधिकशतरूपेण भागहरणं लब्धानि पञ्चदश मण्डलानि षोडशस्य च पञ्च द्वाविंशशतभागाः १५।५ । सम्प्रति सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयति-ता आइच्चेण'मित्यादि, ता इति पूर्ववत् , आदित्येन मासेन चन्द्रः कति मण्डलानि चरति !, भगवा-3 नाह-चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य एकादश पञ्चभागान, तथाहि-यदि षट्या सूर्यमासैरष्टौ र २-5---- dain Education Internation For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy