SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ तथाहि-यदि सप्तपट्या नाक्षत्रैमासैरष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानि नक्षत्रस्य लभ्यन्ते तत एकेन नाक्षत्रेण मासेन किं लभामहे ?, राशित्रयस्थापना-६७ । १८३५ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं, तत १ आयेन राशिना भागहारो लब्धानि सप्तविंशतिरर्द्धमण्डलानि अष्टाविंशतितमस्य चार्द्धमण्डलस्य षविंशतिः सप्तपष्टि-14 भागाः २७ ॥ २६॥ ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकं मण्डलमित्यस्य राशेरर्द्धकरणे लब्धानि त्रयोदश मण्डलानि चतुई शस्य मण्डलस्य सार्द्धाः षट्चत्वारिंशत्सप्तपष्टिभागाः । १३ १६ । सम्प्रति चन्द्रमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति-'ता चंदेण'मित्यादि, ता इति पूर्ववत् , चान्द्रेण मासेन प्रागुक्त स्वरूपेण चन्द्रः कति मण्डलानि चरति ?, भगवानाह-'ता चोदसे'त्यादि, चतुर्दश सचतुर्भागमण्डलानि-चतुर्भागसहितानि मण्डलानि चरति एकं च चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति ?-परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्भाग-चतुर्विंशत्यधिकश-18 तसत्कमेकत्रिंशद्भागप्रमाणमेकं च चतुर्विशत्यधिकशतस्य भाग-द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभा| गान् चरति, तथाहि-यदि चतुर्विशत्यधिकेन पर्वशतेनाष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते ततो Mद्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना-१२४ । ८८५।२। अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि सप्तदश शतान्यष्टषष्ट्यधिकानि १७६८, तेषां चतुर्विंशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशत् चतुर्विंशत्यधिकशतभागाः १४ । ३२४ । 'ता चंदेण'मित्यादि सूर्यविषयं प्रश्नसूत्र सुगम, 'ता पन्नरसे'त्यादि, पञ्चदश चतुर्भागन्यूनानि मण्डलानि चरति एकं च चतुर्विंशत्यधिकशतभागं मण्डलस्य, CCCCCC 5056-56-05-ॐ dain Education Internation ! For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy