________________
सूर्यज्ञतिवृत्तिः
( मल० )
॥२४७॥
Jain Education International
त्रीण्येव शतानि सप्तषष्यधिकानि ३६७, तैर्मध्यो राशिर्गुण्यते जाताश्चतस्रः कोटयो द्वे लक्षे षण्णवतिः सहस्राणि षटू | शतानि ४०२९६६०० तेषामाद्येन राशिना एकविंशतिः सहस्राणि नव शतानि षष्ट्यधिकानीत्येवंरूपेण भागो हियते लब्धान्यष्टादश शतानि पञ्चत्रिंशदधिकानि १८३५ एतावतो भागान्नक्षत्रं प्रतिमुहूर्त्त गच्छति । तदेवं यतश्चन्द्रो यत्र तत्र वा मण्डले एकैकेन मुहूर्त्तेन मण्डल परिक्षेपस्य सप्तदश शतानि अष्टषष्ट्यधिकानि भागानां गच्छति सूर्योऽष्टादश शतानि त्रिंशदधिकानि नक्षत्रमष्टादश शतानि पञ्चत्रिंशदधिकानि ततश्चन्द्रेभ्यः शीघ्रगतयः सूर्याः सूर्येभ्यः शीघ्रगतीनि नक्षत्राणि, ग्रहास्तु वक्रा| नुवक्रादिगतिभावतोऽनियतगतिप्रस्थानास्ततो न तेषामुक्तप्रकारेण गतिप्रमाणप्ररूपणा कृता, उक्तं च- "चंदेहिं सिग्घयरा सूरा सूरेहिं होति नक्खत्ता । अणिययगइपत्थाणा हवंति सेसा गहा सबे ॥ १ ॥ अट्ठारस पणतीसे भागसए गच्छई : • मुहुतेणं । नक्खत्तं चंदो पुण सत्तरस सए उ अडसठ्ठे ॥ २ ॥ अट्ठारस भागसए तीसे गच्छइ रवी मुहुत्तेण । नवखत्तसीमछेदो सो चैव इहंपि नायबो || ३ ||" इदं गाधात्रयमपि सुगमं, नवरं नक्षत्रसीमाछेदः स एव अत्रापि ज्ञातव्य इति किमुक्तं भवति ? - अत्रापि मण्डलमेकेन शतसहस्रेणाष्टानवत्या च शतैः प्रविभक्तव्यमिति ॥ सम्प्रत्युक्तस्वरूपमेव चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभागविषयं विशेषं निर्द्धारयति
ता जया णं चंद गतिसमावण्णं सूरे गतिसमावण्णे भवति, से णं गतिमाताएं केवतियं विसेसेति ?, बाबद्विभागे विसेसेति, ता जया णं चंद गतिसमावण्णं णक्खत्ते गतिसमावण्णे भवइ से णं गतिमाताएं केवतियं विसेसेइ ?, ता सत्तट्ठि भागे विसेंसेति, ता जता णं सूरं गतिसमावण्णं णक्खत्ते गतिसमावण्णे भवति
For Personal & Private Use Only
१५ प्राभृते चन्द्रादीनां गतितारतम्यं सू ८४
॥२४७॥
www.jainelibrary.org