________________
956-OCOCC
यद्यष्टादशभिः शतैः पञ्चत्रिंशदधिकः सकलयुगभाविभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते | ततो द्वाभ्यामर्द्धमण्डलाभ्यां एकैकेन परिपूर्णेन मण्डलेनेति भावः किं लभामहे ?, राशित्रयस्थापना १८३५ । १८३० ।। २। अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि पत्रिंशच्छतानि षष्ट्यधिकानि ३६६० तत आयेन राशिना १८३५ भागहरणं लब्धमेकं रात्रिन्दिवं १ शेपाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि १८२५, ततो मुहूर्त्तानयनार्थमेतानि | त्रिंशता गुण्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि ५४७५०, तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिकैर्भागे हृते लब्धा एकोनत्रिंशन्मुहूर्ताः २१, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्त्तना जात उपरितनो राशिः त्रीणि शतानि सप्तोत्तराणि ३०७ छेदकराशिस्त्रीणि शतानि सप्तषष्ट्यधिकानि ३६७, तत आगतमेकं रात्रिन्दिवमेकस्य च रात्रिन्दिवस्य एकोनत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य सप्तषष्ट्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्तराणि १ । २९। ३६७ । इदानीमेतदनुसारेण मुहूर्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिये त्रिंशन्मुहूर्ताः ३० तेषु उपरितना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां, ततः सा सवर्णनार्थ त्रिभिः शतैः सप्तषश्यधिकैर्गुण्यते, गुणयित्वा चोपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते, जातान्येकविंशतिः सहस्राणि नव शतानि षष्ट्यधिकानि |२१९६०, ततस्त्रैराशिक-यदि मुहूर्त्तगतसप्तषष्ट्यधिकत्रिशतभागानामेकविंशत्या सहानैवभिः शतैः षष्ट्यधिकैरेकं शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यते तत एकेन मुहूर्तेन किं लभामहे?, राशित्रयस्थापना।२१९६०।१०९८००। १। अत्रायो राशिर्मुहूर्त्तगतसप्तषष्ट्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रिभिः शतैः सप्तषष्ट्यधिकैगुण्यते जातानि
CCC5%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org