________________
प्रविश्य चारं चरति, कयराई खलु'दुवे इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-इमाई खलु'एते खलु द्वे अष्टके ये केनाप्यना-- चीर्णपूर्वे चन्द्रः स्वयमेव प्रविश्य चारं चरति, तद्यथा-सर्वाभ्यन्तरान्मण्डलाद्वहिनिष्कामन्नेवामावास्यान्ते एकमष्टकं केनाप्य-* नाचीर्ण चन्द्रः प्रविश्य चारं चरति, सर्वबाह्यात् मण्डलादभ्यन्तरं प्रविशन्नेव पौर्णमास्यन्ते द्वितीयमष्टकं केनाप्यनाचीर्ण चन्द्रः प्रविश्य चारं चरति, 'एयाई खलु दुवे अढगाई'इत्यादि उपसंहारवाक्यं सुगम, इह परमार्थतो द्वौ चन्द्रौ एकेन चान्द्रेणार्द्ध मासेन चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विंशत्यधिकशतभागान् भ्रमणेन पूरयतः परं लोकरूढ्या व्यक्तिभेदमनपेक्ष्य जातिभेदमेव केवलमाश्रित्य चन्द्रश्चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विंशत्यधिकशतभागान् चरतीत्युक्तं । अधुना एकश्चन्द्रमा एकस्मिन्नयने कति अर्द्धमण्डलानि दक्षिणभागे कत्यु-18 त्तरभागे भ्रम्या पूरयतीति प्रतिपिपादयिषुभंगवानाह-'ता पढमायणगए चंदे'इत्यादि, ता इति पूर्ववत्, प्रथमायन-IX गते-प्रथममयनं प्रविष्टे चन्द्रे दक्षिणस्माद्भागादभ्यन्तरं प्रविशति सप्त अर्द्धमण्डलानि भवन्ति यानि चन्द्रो दक्षिणस्माद् | भागादभ्यन्तरं प्रविशन्नाक्रम्य चार चरति, 'कयराइं खलु'इत्यादि, प्रश्नसूत्रं सुगम, भगवानाह-'इमाई खलु'इत्यादि, इमानि खलु सप्तार्द्धमण्डलानि यानि चन्द्रो दक्षिणस्माद्भागादभ्यन्तरं प्रविशन्नाक्रम्य चारं चरति, तद्यथा-द्वितीयमर्द्धमण्डलमित्यादि, सुगम, नवरमियमत्र भावना-सर्ववाह्ये पञ्चदशे मण्डले परिभ्रमणेन पूरणमधिकृत्य परिपूर्णे पाश्चात्ययुगपरिसमाप्तिर्भवति, ततोऽपरयुगप्रथमायनप्रवृत्तौ प्रथमेऽहोरात्रे एकश्चन्द्रमा दक्षिणभागादभ्यन्तरं प्रविशन् द्वितीयमण्डलमाक्रम्य चार चरति, स च पाश्चात्ययुगपरिसमाप्तिदिवसे उत्तरस्यां दिशि चारं चरति-चारं चरितवान् स वेदितव्यः, ततः स
*45*454545
45%
in Education intention
For Personal & Private Use Only
www.janelibrary.org