________________
सूयप्रज्ञप्तिवृत्तिः (मल०) ॥२३९॥
१३प्राभृते चन्द्रायनम ण्डलचारः
सू८१
तस्मात् द्वितीयात् मण्डलात् शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयेऽहोरात्रे उत्तरस्यां दिशि सर्वबाह्यान्मण्डलादभ्यन्तरं तृतीयमर्द्धमण्डलमाक्रम्य चारं चरति, तृतीये अहोरात्रे दक्षिणस्यां दिशि चतुर्थमर्द्धमण्डलं चतुर्थे अहोरात्रे उत्तरस्यां | दिशि पञ्चममर्द्धमण्डलं पञ्चमे अहोरात्रे दक्षिणस्यां दिशि षष्ठमर्द्धमण्डलं षष्ठे अहोरात्रे उत्तरस्यां दिशि सप्तममर्द्धमण्डलं सप्तमे अहोरात्रे दक्षिणस्यां दिशि अष्टममर्द्धमण्डलमष्टमेऽहोरात्रे उत्तरस्यां दिशि नवममर्द्धभण्डलं नवमे अहोरात्रे दक्षिणस्यां दिशि दशममर्द्धमण्डलं दशमे अहोरात्रे उत्तरस्यां दिशि एकादशममर्द्धमण्डलमेकादशे अहोरात्रे दक्षिणस्यां दिशि
द्वादशमर्द्धमण्डलं द्वादशे अहोरात्रे उत्तरस्यां दिशि त्रयोदशमर्द्धमण्डलं त्रयोदशेऽहोरात्रे दक्षिणस्यां दिशि चतुर्दशमPI मण्डलं चतुर्दशे अहोरात्रे उत्तरस्यां दिशि पञ्चदशस्यार्द्धमण्डलस्य त्रयोदशसप्तपष्टिभागानाक्रम्य चारं चरति, एतावता
च कालेन चन्द्रस्यायनं परिसमाप्तं । चन्द्रायनं हि नक्षत्रार्द्धमासप्रमाणं, तेन च नक्षत्रार्द्धमासेन चन्द्रचारे सामान्यतस्त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा लभ्यन्ते, तथाहि-यदि चतुस्त्रिंशदधिकेनायनशतेन सप्तदश शतान्यष्टषष्टिसहितानि मण्डलानां लभ्यन्ते तत एकेनायनेन किं लभामहे !, राशित्रयस्थापना १३४।१७६८।१] अत्राम्त्येन राशिना एककलक्षणेन मध्यराशिगुण्यते जातः स तावानेव ततस्तस्यायेन राशिना चतुस्त्रिंशदधिकशतरूपेण | भागहरणं लब्धास्त्रयोदश शेषास्तिष्ठन्ति षड्विंशतिः तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्तना लब्धास्त्रयोदश सप्तषष्टिभागा इति, उक्तं च-"तेरस य मंडलाणि य तेरस सत्तहि चेव भागा य । अयणेण चरइ सोमो नक्खत्तेणद्धमासेणं ॥१॥" एतच्च सामान्यत उक्तं, विशेषचिन्तायां त्वेकस्य चन्द्रमसो युगस्य प्रथमे अयने यथोक्तेन प्रकारेण दक्षिणभागादभ्यन्तरं
॥२३९॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org