SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिवृत्तिः ॥२३५॥ पढमे पवे अमावासे" इति । अथ कथं चत्वारि मुहूर्त्तशतानि द्विचत्वारिंशदधिकानि षट्चत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य १, उच्यते, इह शुक्लपक्षः कृष्णपक्षो वा चन्द्रमासस्यार्द्ध, ततः पक्षस्य प्रमाणं चतुर्द्दश रात्रिन्दिवं सप्तचत्वारिंशत् ( मल० ) ू द्वाषष्टिभागाः, रात्रिन्दिवस्य परिमाणं त्रिंशन्मुहूर्त्ता इति चतुर्द्दश त्रिंशता गुण्यन्ते, जातानि मुहूर्त्तानां चत्वारि शतानि विंशत्यधिकानि ४२०, येऽपि च सप्तचत्वारिंशत् द्वाषष्टिभागा रात्रिन्दिवस्य तेऽपि मुहूर्त्तभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि चतुर्दश शतानि दशोत्तराणि १४९० तेषां द्वाषष्ट्या भागो हियते लब्धा द्वाविंशतिर्मुहूर्त्ताः ते मुहूर्त्तराशौ प्रक्षिप्यन्ते जातानि चत्वारि मुहूर्त्तानां शतानि द्वाचत्वारिंशदधिकानि ४४२, शेषास्तिष्ठन्ति षट्चत्वारिंशत् द्वाषष्टिभागा मुहूर्त्तस्य तदेवं यावन्तं कालं चन्द्रमसोऽपवृद्धिस्तावत्कालप्रतिपादनं कृतं अथ यावन्तं कालं वृद्धिस्तावन्तमभिधित्सु| राह-'ता अंधकारपक्खातो ण' मित्यादि, ता इति पूर्ववत् अन्धकारपक्षात् णमिति वाक्यालङ्कारे ज्योत्स्नापक्ष - शुक्लपक्षमयमानश्चन्द्रश्चत्वारि द्वाचत्वारिंशदधिकानि मुहूर्त्तशतानि षट्चत्वारिंशतं च द्वाषष्टिभागान् मुहूर्त्तस्य यावद्वृद्धिमुपगच्छतीति वाक्यशेषः, यानि - यथोक्तसङ्ख्याकानि मुहूर्त्तशतानि यावच्चन्द्रः शनैः शनैर्विरक्को - राहुविमानेनानावृतो भवतीति, विरागप्रकारमेवाह- 'तंज' त्यादि, तद्यथेति विरागप्रकारोपदर्शने प्रथमायां प्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशभागं यावत् चन्द्रो विरज्यते, द्वितीयायां द्वितीयं पञ्चदशं भागं यावत् एवं पञ्चदश्यां पञ्चदशं भागं यावत् तस्याश्च पञ्चदश्याः पौर्णमासीरूपायास्तिथेश्वरमसमये चन्द्रो विरक्तो भवति, सर्वात्मना राहुविमानेनानावृतो भवतीति भावः, तं च पञ्चदश्याश्चरमसमयं मुक्त्वा शुक्लपक्षप्रथमसमयादारभ्य शेषेषु समयेषु चन्द्रो रक्तश्च भवति विरक्तश्च, देशतो रक्तो Jain Education International For Personal & Private Use Only १३ प्राभृते चन्द्रमसो वृद्ध्यपवृद्धी सू ७९ ||२३५॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy