________________
*
*
*
*
जातानि नव शतानि षष्ट्यधिकानि ९६०, तेषां द्वापट्या भागो हियते, लब्धाः पञ्चदश मुहूर्ताः १५, ते मुहूर्तराशौ प्रक्षि-18 प्यन्ते, जातानि मुहूर्तानामष्टौ शतानि पञ्चाशीत्यधिकानि ८८५, शेषाश्चोद्धरन्ति त्रिंशत् द्वापष्टिभागा मुहूर्तस्य, एतदेव प्रतिविशेषावबोधार्थ वैविक्त्येन स्पष्टयति-ता दोसिणाओ'इत्यादि, ता इति पूर्ववत् , ज्योत्स्नाप्रधानः पक्षो ज्योत्स्नापक्षः शुक्लपक्ष इत्यर्थः तस्मात् अन्धकारपक्षमयमानो-गच्छन् चन्द्रः चत्वारि मुहूर्तशतानि द्विचत्वारिंशानि-द्विचत्वारिंशदधिकानि पट्चत्वारिंशतं च द्वाषष्टिभागान मुहूर्तस्य यावदपवृद्धिं गच्छतीति वाक्यशेषः, यानि यथोक्तसङ्ख्याकानि | मुहूर्तशतानि यावच्चन्द्रो राहुविमानप्रभया रज्यते, कथं रज्यते ? इति तमेव रागप्रकारं तद्यथेत्यादिना प्रकटयति, प्रथ. |मायां-प्रतिपल्लक्षणायां तिथौ परिसमाप्नुवत्यां प्रथम-परिपूर्ण पञ्चदशं भागं यावद्रज्यते, द्वितीयायां परिसमानुवत्यां तिथौ परिपूर्ण द्वितीयं पञ्चदर्श भागं यावत् , एवं यावत्पञ्चदश्यां तिथौ परिसमामुवत्यां परिपूर्ण पञ्चदशं भागं यावद्रज्यते, तस्याश्च पञ्चदश्यास्तिथेश्चरमसमये चन्द्रः सर्वात्मना राहुविमानप्रभया रक्तो भवति, तिरोहितो भवतीति तात्पर्यार्थः, यस्तु पोडशो भागो द्वापष्टिभागद्वयात्मकोऽनावृतस्तिष्ठति स स्तोकत्वाददृश्यत्वाच्च न गण्यते, 'अवसेसे'इत्यादि, तं च पञ्चदश्यास्तिश्चरमसमयं मुक्त्वा अन्धकारपक्षप्रथमसमयादारभ्य शेषेषु सर्वेष्वपि समयेषु चन्द्रो रक्तो भवति विरक्तश्च, कियानंशस्तस्य राहुणा आवृतो भवति कियांश्चानावृत इति भावः, अन्धकारपक्षवक्तव्यतोपसंहारमाह-'इयण्ण'मित्यादि, इयमन्धकारपक्षे पञ्चदशी तिथिः णमिति वाक्यालङ्कारे अमावास्या-अमावास्या नाम्नी अत्र युगे प्रथमं पर्व अमावास्या, इह मुख्यवृत्त्या पर्वशब्दस्याभिधेयममावास्या पौर्णमासी च, उपचारात् पक्षे पर्वशब्दस्य प्रवृत्तिस्तत उक्तम्-“एत्थ णं है
*
*
in Education international
For Personal & Private Use Only
www.janelibrary.org