________________
Jain Education Internation
| इयमत्र भावना - एकया दवरिकया बुद्ध्या कल्पितया पूर्वापरायतया एकया च दक्षिणोत्तरायतया मंडलं समकालं विभव्यते, विभक्तं च सच्चतुर्भागतया जातं, तद्यथा - एको भाग उत्तरपूर्वस्यामेको दक्षिणपूर्वस्यामेको दक्षिणापरस्यामेकोऽपरोतरस्यामिति, तत्र दक्षिणपौरस्त्ये- दक्षिणपूर्वे चतुर्भागमण्डले - चतुर्भागमात्रे मण्डले मण्डलचतुर्भाग इत्यर्थः, एकत्रिंशद्भा गप्रमाणे सप्तविंशतिं भागानुपादाय गृहीत्वा आक्रम्येत्यर्थः, अष्टाविंशतितमं च भागं विंशतिधा छित्त्वा तस्य सत्कानष्टादश भागानुपादाय - आक्रम्य शेषैस्त्रिभिरेक त्रिंशत्सत्कैर्भागैर्द्वाभ्यां च कलाभ्यामेकस्य एकत्रिंशत्सत्कस्य भागस्य सत्काभ्यां | द्वाभ्यां विंशतितमाभ्यां भागाभ्यां दक्षिणपश्चिमं चतुर्भागमण्डलं मण्डलचतुर्भागमसम्प्राप्तोऽस्मिन् प्रदेशे स चन्द्र छत्रातिच्छत्ररूपं योगं युनक्ति-करोति, एनमेव 'तद्यथेत्यादिना भावयति, उपरि चन्द्रो मध्ये नक्षत्रमधस्ताच्चादित्य इति, इह मध्ये नक्षत्रमित्युक्तं ततो नक्षत्रविशेषप्रतिपत्त्यर्थं प्रश्नं करोति - 'तं समयं च ण'मित्यादि, तस्मिन् समये चन्द्रः केन नक्षत्रेण युनक्ति - योगं करोति १, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, तस्मिन् समये चित्रया सह योगं करोति, तदानीं च चित्रायाश्चरमसमयः ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां द्वादशं प्राभृतं समाप्तम् ॥
तदेवमुक्तं द्वादशं प्राभृतं, सम्प्रति त्रयोदशमारभ्यते तस्य चायमर्थाधिकारो यथा - 'चन्द्रमसो वृद्ध्यपवृद्धी वक्तव्ये' | इति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते चंद्रमसो वोवी आहितेति वदेज्जा ?, ता अट्ठ पंचासीते मुहुत्तसते तीसं च बावद्विभागे मुहु
For Personal & Private Use Only
www.jainelibrary.org