________________
तिवृत्तिः
(मल०)
ताद्या यो
॥२३३॥
प्रसिद्धं तदाकारो योगोऽपि छत्रं, छत्रात्-सामान्यरूपात् उपर्यन्यान्यच्छत्रभावतोऽतिशायि छत्रं छत्रातिच्छत्रं तदा- १२माभूते कारो योगोऽपि छत्रातिच्छत्रं, युगमिव नद्धो युगनद्धः, यथा युगं वृषभस्कन्धयोरारोपितं वर्त्तते तद्वत् योगोऽपि यः प्रति- वृषभानुजा भाति स युगनद्ध इत्युच्यते, घनसम्मई रूपः यत्र चन्द्रः सूर्यो वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति, प्रीणितः-उपचयं नीतः यः प्रथमतश्चन्द्रमसः सूर्यस्य वा एकतरस्य ग्रहेण नक्षत्रेण वा एकतरेण जातस्तदनन्तरं द्वितीयेन सूर्यादिना सहो
गाःसू ७८ पचयं गतः स प्रीणित इति भावः, माण्डूकप्लुतो नाम दशमः, तत्र माण्डूकप्लुत्या यो जातो योगः स माण्डूकप्लुतः, स च ग्रहेण सह वेदितव्यः, अन्यस्य माण्डूकप्लुतिगमनासम्भवात् , उक्तं च-"चन्द्रसूर्यनक्षत्राणि प्रतिनियतगतानि ग्रहास्त्वनियतगतय"इति, तदित्थं यथावबोधं दशानामपि योगानां स्वरूपमात्रभावना कृता यथासम्प्रदायमन्यथा वा वाच्या, तत्र युगे छत्रातिच्छत्रवर्जाः शेषा नवापि योगाः प्रायो बहुशो बहुषु च देशेषु भवन्ति, छत्रातिच्छत्रयोगस्तु कदाचित् कस्मिंश्चिदेव देशे ततस्तद्विषयं प्रश्नसूत्रमाह-ता एएसि ण'मित्यादि, ता इति पूर्ववत् , एतेषामनन्तरोदिताना चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये छत्रातिच्छत्रं योगं चन्द्रः कस्मिन् देशे युनक्ति-करोति ?, भगवानाह-'ता'इत्यादि, |ता इति पूर्ववत् जम्बूद्वीपस्य द्वीपस्योपरि प्राचीनापाचीनायतया उदग्दक्षिणायतया अत्र चशब्दोऽनुक्तो द्रष्टव्यः यदिवा |चित्रविभक्तिनिर्देशादेव समुच्चयो लब्ध इति चशब्दो नोक्तः, यथा 'अहरहर्नयमानो गामश्वं पुरुषं पशु-वैवश्वतो न तृप्यति । सुराया इव दुर्मदी' इत्यत्र, चादयो हि पदान्तराभिहितमेवार्थ स्पष्टयति न पुनः स्वातन्त्र्येण कमप्यर्थमभिदधति इति निणींतमेतत् स्वशब्दानुशासने, जीवया-प्रत्यञ्चया दवरिकया इत्यर्थः, मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा-विभज्य,
॥२३॥
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org