SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः ( मल० ) ॥२३१॥ Jain Education International व द्वाषष्टिभागस्य विंशतौ सप्तपष्टिभागेषु शेषेषु चतुर्थी माघमास भाविन्यावृत्तिः प्रवर्त्तते सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं पश्चममाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह- 'ता एएसि णमित्यादि, सुगमं, भगवानाह - 'ता कन्तियाहिं' इत्यादि, ता इति पूर्ववत्, कृत्तिकाभिर्युक्तश्चन्द्रः पञ्चमी हेमन्तीं (माघ) मासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च कृत्तिकानक्षत्रस्य अष्टादश मुहूर्त्ता एकस्य च मुहूर्त्तस्य पत्रिंशद् द्वापष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्का पट् चूर्णिकाभागाः शेषाः, तथाहि पञ्चमी माघमासभाविन्यावृत्तिः प्रागुपदर्शितक्रमापेक्षया दशमी ततस्तस्याः स्थाने दशको ध्रियते, स रूपोनः कार्य इति जातो नवकः, तेन प्राक्तनो ध्रुवराशिः ५७३ । ३६ । ६ । गुण्यते, जातान्येकपञ्चाशच्छतानि सप्तपञ्चाशदधिकानि मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां त्रीणि शतानि चतुर्विंशत्यधिकानि एकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशत् सप्तषष्टिभागाः । ५१५७ । ३२४ । ५४ । तत एतेभ्य एकोनपञ्चाशच्छतैर्मुहूत्तैः चतुर्दशाधिकैर्मुहूर्त्तगतानां च द्वाषष्टिभागानां चतुश्चत्वारिंशदधिकेन शतेन द्वाषष्टिभागगतानां च सप्तषष्टिभागानां त्रिभिः | शतैः पण्णवत्यधिकैः पटू नक्षत्रपर्यायाः शुद्धाः स्थिते पश्चान्मुहूर्त्तानां द्वे शते त्रिचत्वारिंशदधिके मुहूर्त्तगतानां च द्वाष| ष्टिभागानां चतुःसप्तत्यधिकं शतं एकस्य च द्वाषष्टिभागस्य षष्टिः सप्तषष्टिभागाः २४३ । १७४ । ६० । तत एकोनपयधिकेन मुहूर्त्तशतेन एकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धानि स्थितानि पश्चान्मुहूर्त्तानां चतुरशीतिर्मुहूर्त्तगतानां च द्वाषष्टिभागानां शतमेकोनपञ्चाशदधिकं एकस्य च द्वापष्टिभागस्य एकषष्टिः सप्तषष्टिभागाः । ८४ । १४९ । ६१ । ततो द्वाषष्टिभागानां For Personal & Private Use Only १२ प्राभृते मन्त् आवृत्तयः सू ७७ ॥२३१॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy