________________
चतुर्विंशत्यधिकेन शतेन द्वौ मुहत्तौ लब्धौ पश्चात् स्थिताः पञ्चविंशतिषिष्टिभागाः, लब्धौ च मुहूत्तौं मुहूर्तराशौ प्रक्षि-18 लाप्येते, जाता पडशीतिर्मुहूर्तानां, ततः पञ्चसप्तत्या मुहूर्तानां रेवत्यश्विनीभरण्यः शुद्धाः, स्थिताः पश्चादेकादश मुहर्ताः,४ | शेषं तथैव ११ । २५ । ६१ तत आगतं-कृत्तिकानक्षत्रस्याष्टादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य षट्त्रिंशति द्वापष्टिभागेप्वेकस्य च द्वापष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु पञ्चमी हैमन्ती आवृत्तिः प्रवर्तते, सूर्यनक्षत्रयोगविषये च प्रश्ननिर्वचनसूत्रे सुगमे । तदेवमुक्ता दशापि नक्षत्रयोगमधिकृत्य सूर्यस्यावृत्तयः, सम्प्रति चन्द्रस्य वक्तव्यास्तत्र यस्मिन्नेव नक्षत्रे वर्तमानः सूर्यो दक्षिणा उत्तरा वा आवृत्तीः करोति तस्मिन्नेव नक्षत्रे वर्तमानश्चन्द्रोऽपि दक्षिणा उत्तराश्चावृत्तीः कुरुते, ततो या उत्तराभिमुखा आवृत्तयो युगे चन्द्रस्य दृष्टास्ताः सर्वा अपि नियतमभिजिता नक्षत्रेण सह योगे द्रष्टव्याः यास्तु दक्षिणाभिमुखास्ताः पुष्येण योगे, उक्तं च-"चंदस्सवि नायवा आउट्टीओ जुगंमि जा दिहा । अभिएणं पुस्सेण य नियम नक्खत्तसेसेणं ॥ १॥" अत्र 'नक्खत्तसेसेणं ति नक्षत्रार्द्धमासेन, शेषं सुगम, तत्राभिजित्युत्तराभिमुखा | आवृत्तयो भाव्यन्ते, यदि चतुस्त्रिंशदधिकेनायनशतेन चन्द्रस्य सप्तषष्टिर्नक्षत्रपर्याया लभ्यन्ते ततः प्रथमेऽयने किं लभ्यते?, राशित्रयस्थापना-१३४ । ६७।१ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः सप्तषष्टिरूपस्य गुणनं जाता सप्तपष्टिरेव, एकेन गुणितं तदेव भवतीति वचनात् , तस्याश्च सप्तषष्टेश्चतुस्त्रिंशदधिकेन शतेन भागे हृते लब्धमेकमर्द्ध पर्यायस्य, तस्मिंश्चाद्धे नव शतानि पञ्चदशोत्तराणि सप्तपष्टिभागानां भवन्ति, तत्र त्रयोविंशतौ सप्तपष्टिभागेषु पुष्यनक्षत्रस्य भुक्तेषु दक्षिणायनं चन्द्रः कृतवान् , ततः शेषाश्चतुश्चत्वारिंशत् सप्तषष्टिभागा अनन्तरोदितराशेः शोध्यन्ते, स्थितानि शेषाणि
Jain Education Interna
For Personal & Private Use Only
www.jainelibrary.org