________________
सूर्यप्रज्ञ- लब्धा दश मुहर्ताः १०, शेषास्तिष्ठन्ति विंशतिः, सा द्वापष्टिभागकरणार्थ द्वाषष्ट्या गुण्यते, जातानि द्वादश शतानि चत्वारिं
१२ प्राभृते
| आवृत्तयः प्तिवृत्तिःशदधिकानि १२४०, तेषां सप्तषष्ट्या भागो हियते, लब्धा अष्टादश द्वापष्टिभागाः, शेषास्तिष्ठन्ति चतुस्त्रिंशत् द्वापष्टिभागस्य
सू ७६ ( मल० ) सप्तपष्टिभागाः, तत आगतं पुष्यस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्याष्टादशसु द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य चतु
स्त्रिंशति सप्तपष्टिभागेषु गतेषु एकोनविंशती च मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु शेषेषु प्रथमाश्रावणमासभाविन्याऽऽवृत्तिः प्रवर्तते इति । (अथ द्वितीयश्रावणमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह)ता एएसिण'मित्यादि, ता इति पूर्ववत् , एतेषां-अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां
मध्ये द्वितीयां वार्षिकी श्रावणमासभाविनीमावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति-केन नक्षत्रेण युक्तः सन् चन्द्रो द्वितीयामा-8 लावृत्तिं प्रारम्भयति?, एवं प्रश्ने कृते सति भगवानाह-ता संठाणाहिं' इत्यादि, ता इति पूर्ववत , संस्थानाभिः-संस्थानाश
ब्देन मृगशिरोनक्षत्रमभिधीयते, तथा प्रवचने प्रसिद्धेः, ततो.मृगशिरोनक्षत्रेण युक्तश्चन्द्रमा द्वितीयां श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च मृगशिरोनक्षत्रस्य एकादश मुहूत्ता एकस्य च मुहूर्तस्य एकोनचत्वारिंशत् द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तपष्टिभागाः शेषाः, तथाहि-इह या द्वितीया श्रावणसासभाविन्यावृत्तिः सा प्राक्प्रद
.. ॥२२५॥ शितक्रमापेक्षया तृतीया ततस्तत्स्थाने त्रिको ध्रियते, स रूपोनः कार्य इति जातो द्विकस्तेन प्राक्तनो ध्रुवराशिः पञ्च शतानि त्रिसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य षटत्रिंशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य षट् सप्तपष्टिभागाः ५७३ । ।३।। इत्येवंप्रमाणो गुण्यते, जातान्येकादश शतानि षट्चत्वारिंशदधिकानि मुहूर्तानां ११४६ द्वासप्तति
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org