SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ एतदेव सविशेषमाचष्टे-तदानीं पुष्यस्य एकोनविंशतिर्मुहू स्त्रिचत्वारिंशच्च द्वापष्टिभागा मुहूर्तस्य एकं च द्वापष्टिभागं सप्तपष्टिधा छित्त्वा तस्य सत्कास्त्रयस्त्रिंशच्चूर्णिका भागाः शेषाः, कथमेतदवसीयते इति चेत् , उच्यते, त्रैराशिकबलात्, तथाहि-यदि दशभिरयनैः पञ्च सूर्यकृतान्नक्षत्रपर्यायान् लभामहे तत एकेनायनेन किं लभामहे !, राशित्रयस्थापना |४|१०।५।१ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः पञ्चकरूपस्य गुणनं जाताः पञ्चैव तेषां दशभिर्भागे हृते लब्धमर्द्ध पर्यायस्य, तत्र नक्षत्रपर्यायः सप्तपष्टिभागरूपोऽष्टादश शतानि त्रिंशदधिकानि १८३०, तथाहि-पट् नक्षत्राणि शतभिषक्प्रभृतीनि अर्द्धनक्षत्राणि ततस्तेषां प्रत्येक सा स्त्रयस्त्रिंशत्सप्तपष्टिभागाः, ते सा स्त्रयस्त्रिंशत् पनि-12 गुण्यन्ते, जाते द्वे शते एकोत्तरे २०१, षट् नक्षत्राणि उत्तरभद्रपदादीनि यद्धक्षेत्राणि, ततस्तेषां प्रत्येकमेकं शतं सप्तषष्टि-18 |भागानामेकस्य च सप्तषष्टिभागस्यार्द्ध, एतत् पनिर्गुण्यते, जातानि षट् शतानि व्युत्तराणि ६०३, शेषाणि पञ्चदश नक्षत्राणि समक्षेत्राणि तेषां प्रत्येक सप्तपष्टिभागाः ततः सप्तषष्टिः पञ्चदशभिर्गुण्यते, जातं पश्चोत्तरं सहस्रं १००५, एकविंशतिश्चाभिजितः सप्तषष्टिभागाः, सर्वसङ्ख्यया सप्तषष्टिभागानामष्टादश शतानि त्रिंशदधिकानि १८३०, एष परिपूर्णः|४ सप्तपष्टिभागात्मको नक्षत्रपर्यायः, एतस्यार्धे नव शतानि पञ्चदशोत्तराणि ९१५, तेभ्य एकविंशतिरभिजितः सम्बन्धिनी शुद्धा शेषाणि तिष्ठन्ति अष्टौ शतानि चतुर्नवत्यधिकानि ८९४, तेषां सप्तषष्ट्या भागो ह्रियते, लब्धास्त्रयोदश १३, शेषास्तिष्ठन्ति त्रयोविंशतिः, त्रयोदशभिश्च पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, ये च शेषास्तिष्ठन्ति त्रयोविंशतिर्भागास्ते | मुहूर्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि पट् शतानि नवत्यधिकानि ६९०, तेषां सप्तषष्ट्या भागो हियते ( ग्रं० ७०००) SC dan Education Internationa For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy