________________
सामने आवत्तया सू७६
सूर्यप्रज्ञ- पञ्चत्रिंशदधिकेभ्यः पात्यन्ते, स्थितौ पश्चात् द्वौ महत्तौं, तौ द्वाषष्टिभागीकरणार्थं द्वाषष्ट्या गुण्येते, जातं चतुर्विशं शतं द्वाप- तिवृत्तिः
1| प्टिभागानां १२४ तत्माक्तने पञ्चाशल्लक्षणे द्वापष्टिभागराशौ प्रक्षिप्यते जातं चतुःसप्तत्यधिकं शतं द्वापष्टिभागानां (मल०)
|१७४, तथा येऽभिजितः सम्बन्धिनः चतुर्विंशतिषिष्टिभागाः शोध्याः ते सप्तभिर्गुण्यन्ते जातमष्टपश्यधिकं शतं १६८ ॥२२४॥
तत् चतुःसप्तत्यधिकात् शतात् शोध्यते, स्थिताः शेषाः षट् द्वाषष्टिभागाः, ते चूर्णिकाभागकरणार्थं सप्तषष्ट्या गुण्यन्ते गुणयित्वा च ये प्राक्तनाः पष्टिः सप्तषष्टिभागास्ते तत्र प्रक्षिप्यन्ते, जातानि चत्वारि शतानि द्वाषष्ट्यधिकानि ४६२, | ततो येऽभिजितः सम्बन्धिनः षट्पष्टिश्चर्णिका भागाः शोध्याः ते सप्तभिर्गुण्यन्ते, जातानि चत्वारि शतानि द्वाषट्यधिकानि ४६२ तान्यनन्तरोदितराशेः शोध्यन्ते, स्थितं पश्चात् शून्य, तत आगतं साकल्येनोत्तराषाढानक्षत्रे चन्द्रण भुक्ते सति तदनन्तरस्याभिजितो नक्षत्रस्य प्रथमसमये युगे प्रथमा आवृत्तिः प्रवर्तते, एतदेव प्रश्ननिर्वचनरीत्या प्रतिपादयतिएएसि णमित्यादि, एतेषां अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये प्रथमां वार्षिकीं-वर्षाकालसम्बन्धिनी श्रावणमासभाविनीमित्यर्थः आवृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति ?-केन नक्षत्रेण सह योगमुपागतः सन् प्रवर्त्तयति ?, एवं गौतमेन प्रश्ने कृते भगवानाह-'ता अभिइणा'इत्यादि, अभिजिता नक्षत्रेण युनक्ति, एतदेव विशेषतः आचष्टे-अभिजितो नक्षत्रस्य प्रथमसमये युनक्ति, तदेवं चन्द्रनक्षत्रमवबुध्य सूर्यनक्षत्रविषयं प्रश्नमाह-'तं समयं च - मित्यादि, तस्मिंश्च समये णमिति वाक्यालङ्कारे सूर्यः केन नक्षत्रेण युनक्ति-केन नक्षत्रेण सह योगमुपागतः सन् तां | प्रथमाऽऽवृत्तिं प्रवर्तयतीति !, भगवानाह-'ता पूसेण'मित्यादि, ता इति पूर्ववत् , पुष्येण युक्तस्तां प्रथमामावृत्ति युनक्ति,
२२४
dain Education International
For Personal & Private Use Only
www.jainelibrary.org