SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ प्रावृडादय ऋतवः प्रत्येकं चन्द्रर्त्तवः सन्तो द्वौ द्वौ मासौ वेदितव्यौ, तौ च किंप्रमाणावित्याह-तिचउप्पण्ण'मित्यादि, त्रीणि शतानि चतुःपञ्चाशदधिकानि रात्रिंदिवानां द्वादशं च द्वापष्टिभागा रात्रिंदिवस्येति शेषः, इत्येवंरूपेणादानेन इत्येवंरूपं संवत्सरप्रमाणमादायेत्यर्थः गण्यमानौ द्वौ मासौ सातिरेकाणि-मनागधिकानि द्वाभ्यां रात्रिंदिवस्य द्वापष्टिभागाभ्यामधिकानीति भावः एकोनषष्टिरेकोनषष्टिः रात्रिंदिवानि रात्रिंदिवानेण-रात्रिदिवपरिमाणेनाख्याताविति वदेत्, | तथाहि-द्विद्विमासप्रमाणाः षट् ऋतव इति त्रयाणां चतुःपञ्चाशदधिकानांरात्रिंदिवशतानां षड्भिर्भागे हते लब्धा एकोनषष्टिरहोरात्रा द्वादशानां च द्वापष्टिभागानां षभिर्भागहारे द्वौ द्वापष्टिभागौ इति, एवं च सति कर्ममासापेक्षया एकैकस्मिन् ऋतौ लौकिकमेकैकं चन्द्रर्त्तमधिकृत्य व्यवहारत एकैकोऽवमरात्रो भवति, सकले तु कर्मसंवत्सरे, पट् अवमरात्राः, तथा चाह-तत्थे"त्यादि, तत्र-कर्मसंवत्सरे चन्द्रसंवत्सरमधिकृत्य व्यवहारतः खल्विमे-वक्ष्यमाणक्रमाः षट् अवमरात्राः प्रज्ञप्ताः, तद्यथा-'तइए पो'इत्यादि सुगमम् , इयमत्र भावना-इह कालस्य सूर्यादिक्रियोपलक्षितस्यानादिप्रवाहपतितप्रतिनियतस्वभावस्य न स्वरूपतः कापि हानिर्नापि कश्चिदपि स्वरूपोपचयो यत्त्विदमवमरात्रातिरात्रप्रतिपादनं तत्परस्परं मासचिन्तापेक्षया, तथाहि-कर्ममासमपेक्ष्य चन्द्रमासस्य चिन्तायामवमरात्रसम्भवः कर्ममासमपेक्ष्य सूर्यमासचिन्तायामतिरात्रकल्पना, तथा चोक्तम्-“कालस्स नेव हाणी नविवुड्डी वा अवठिओ कालो। जायइ बहोवढी मासाणं एकमेकाओ ॥१॥" तत्रावमरात्रभावनाकरणार्थमिदं पूर्वाचार्योपदर्शितं गाथाद्वयं-"चंदऊऊमासाणं अंसा जे दिस्सए विसेसंमि । ते ओमरत्तभागा भवंति मासस्स नायबा ॥ १॥ बावद्विभागमेगं दिवसे ॐॐॐॐॐॐब 4-5 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy