________________
सूर्यज्ञशिवृत्तिः ( मल०
॥२१७॥
Jain Education International
संजाइ ओमरत्तस्स । बावट्ठीए दिवसेहिं ओमरत्तं तओ हवइ ॥ २ ॥" अनयोर्व्याख्या - कर्म्ममासः परिपूर्ण त्रिंशदहोरात्रप्रमाणश्चन्द्रमास एकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य ततश्चन्द्रमासस्य - चन्द्रमासपरिमा णस्य ऋतुमासस्य च - कर्म्ममासपरिमाणस्य च इत्यर्थः, परस्परविश्लेषः क्रियते, विश्लेषे च कृते सति ये अंशा उद्धरिता दृश्यन्ते त्रिंशत् द्वाषष्टिभागरूपाः ते अवमरात्रस्य भागाः तद्ध्यवमरात्रस्य परिपूर्ण मासद्वयपर्यन्ते भवति, ततस्तस्य सत्कास्ते भागा मासस्यावसाने द्रष्टव्याः, यदि त्रिंशति दिवसेषु त्रिंशद् द्वाषष्टिभागा अवमरात्रस्य प्राप्यन्ते तत एकस्मिन् दिवसे कतिभागाः प्राप्यन्ते, राशित्रयस्थापना - ३० । ३० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य राशेस्त्रिंशद्रूपस्य गुणनं, एकेन च गुणितं तदेव भवतीति जातास्त्रिंशदेव, तस्या आदिराशिना त्रिंशता भागे हृते लब्ध एकः आगतं प्रतिदिवसमेकैको द्वाषष्टिभागो लभ्यते, तथा चाह - ' बावट्ठि' त्यादि, द्वाषष्टिभाग एकैको दिवसे दिवसे संजायते अवमरात्रस्य, गाथायामेकशब्दो दिवसशब्दश्चागृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति नपुंसकनिर्देशश्च प्राकृतलक्षणवशात्, तदेवं यत एकैकस्मिन् दिवसे एकैको द्वाषष्टिभागोऽवमरात्रस्य सम्बन्धी प्राप्यते ततो द्वापष्ट्या दिवसैरेकोsवमरात्रो भवति, किमुक्तं भवति ? - दिवसे दिवसे अवमरात्रसत् कै कै क द्वाषष्टिभागवृद्ध्या द्वाषष्टितमो भागः सञ्जायमानो द्वाषष्टितमदिवसे मूलत एव त्रिषष्टितमा तिथिः प्रवर्त्तते इति, एवं च सति य एकषष्टितमोऽहोरात्रस्तस्मिन्ने कपष्टितमा | द्वाषष्टितमा च तिथिर्निधनमुपगतेति द्वाषष्टितमा तिथिलोंके पतितेति व्यवह्रियते, उक्तं च - "एक्कसि अहोरते दोवि तिही | जत्थ निहणमेज्जासु । सोत्थ तिही परिहायइ" इति वर्षाकालस्य - चतुर्मासप्रमाणस्य श्रावणादेः तृतीये पर्वणि सति प्रथमोऽ
For Personal & Private Use Only
१२ प्राभृते चन्द्रतुषु
चन्द्रन क्षत्र
करणं
सू ७५ अवमरात्रि
करणं
॥२१७॥
www.jainelibrary.org