SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 4% ते चेव । नक्खत्तसोहणाणि अपरिजाणसु पुवभणियाणि ॥१॥" अस्या गाथाया व्याख्या-चन्द्रानां चन्द्रनक्षत्रयोगार्थ स एव पश्चोत्तरशतत्रयप्रमाणो ध्रुवराशिर्वेदितव्यः, गुणराशयोऽपि-गुणकारराशयोऽपि एकादिका ब्युत्तरवृद्धास्त एव भवन्ति ज्ञातव्या ये पूर्वमुपदिष्टा नक्षत्रशोधनान्यपि च परिजानीहि तान्येव यानि पूर्वभणितानि द्वाचत्वारिंशत्प्रभृतीनि, ततः पूर्वप्रकारेण विवक्षिते चन्द्रत्तौं नियतो नक्षत्रयोग आगच्छति, तत्र प्रथमे चन्द्रत्तों कश्चन्द्रनक्षत्रयोग इति जिज्ञासायां स एव पश्चोत्तरशतत्रयप्रमाणोध्रुवराशिधियते ३०५ स एकेन गुण्यते एकेन च गुणितः सन् तावानेव भवति ततोऽभिजितो Mद्वाचत्वारिंशत् शुद्धा शेषेतिष्ठते द्वे शते त्रिषष्यधिके२६३ततश्चतस्त्रिंशेन शतेन श्रवणः शुद्धः स्थितं पश्चादेकोनत्रिंशतं शतं१२९ तस्य द्विकेनापवर्त्तना जाता सार्द्धाश्चतुःषष्टिः सप्तपष्टिभागाः, आगतं धनिष्ठायाः सार्की चतुःषष्टिं सप्तषष्टिभागानवगाह्य चन्द्रः प्रथमं स्वमृतुं परिसमापयति, द्वितीयचन्द्र जिज्ञासायां स एव ध्रुवराशिः पञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते जातानि नव शतानि पञ्चदशोत्तराणि ९१५ तत्राभिजितो द्वाचत्वारिंशत् शुद्धा स्थितानि शेषाणि अष्टौ शतानि त्रिसप्तत्यधि| कानि ८७३ ततश्चतुस्त्रिंशदधिकेन शतेन श्रवणः शुद्धिमुपगतः स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि ४/७३९ ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धा जातानि षट् शतानि पञ्चोत्तराणि ६०५ ततोऽपि सप्तषष्ट्या शतभिषक् शुद्धा स्थितानि पश्चात्पश्च शतान्यष्टात्रिंशदधिकानि ५३८ एतेभ्योऽपि चतुस्त्रिंशेन शतेन पूर्वभद्रपदा शुद्धा स्थितानि चतुरधिकानि चत्वारि शतानि ४०४ तेभ्योऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा स्थिते शेषे द्वे शते व्युत्तरे २०३ ताभ्यामपि चतुस्त्रिंशेन शतेन रेवती शुद्धा स्थिता पश्चादेकोनसप्ततिः ६९ आगतमश्विनीनक्षत्रस्यैकोनसप्ततिं चतुस्त्रिंशदधिकश 40445C4OCACK 5 %95%% 1- Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy