SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिवृत्तिः ★मल० ) ॥२१०॥ Jain Education International | माया अक्षयतृतीयायाः प्राकू युगस्यादित आरभ्य पर्वाण्यतिक्रान्तानि एकोनविंशतिः, ततः एकोनविंशतिर्धृत्वा पञ्चदशभिर्गुण्यते, जाते द्वे शते पञ्चाशीत्यधिके २८५, अक्षयतृतीयायां किल पृष्टमिति पर्वणामुपरि तिस्रस्तिथयः प्रक्षिप्यन्ते, जाते द्वे शते अष्टाशीत्यधिके २८८, तावति च काले अवमरात्राः पञ्च भवन्ति ततः पच पात्यन्ते, जाते द्वे शते त्र्यशीत्यधिके २८३, ते द्वाभ्यां गुण्येते, जातानि पश्च शतानि षट्षष्ट्यधिकानि ५६६, तान्येकषष्टिसहितानि क्रियन्ते, जातानि षट् शतानि सप्तविंशत्यधिकानि ६२७, तेषां द्वाविंशेन शतेन भागहरणं, लब्धाः पश्च, ते च षङ्गिर्भागं न सहन्ते इति न तेषां पनिर्भागहारः, शेषास्त्वंशा उद्धरन्ति सप्तदश, तेषामद्धे जाताः सार्द्धा अष्टौ, आगतं पञ्च ऋतवोऽतिक्रान्ताः षष्ठस्य च ऋतोः प्रवर्त्तमानस्याष्टौ दिवसा गता नवमो वर्त्तते, तथा युगे द्वितीये दीपोत्सवे केनापि पृष्टं - कियन्त ऋतवोऽतिक्रान्ताः को वा सम्प्रति वर्त्तते १ तत्रैतावति काले पर्वाण्यतिक्रान्तान्येकत्रिंशत्, तानि पञ्चदशभिर्गुण्यन्ते, जातानि चत्वारि' शतानि पञ्चषष्यधिकानि ४६५, अवमरात्राचैतावति काले व्यत्यक्रामन्नष्टौ ततोऽष्टौ पात्यन्ते, स्थितानि शेषाणि चत्वारि शतानि सप्तपञ्चाशदधिकानि ४५७, तानि द्विगुणीक्रियन्ते, जातानि नव शतानि चतुर्द्दशोत्तराणि ९१४, तेष्वेकषष्टिभागप्रक्षेपे जातानि पञ्चसप्तत्यधिकानि नव शतानि ९७५, तेषां द्वाविंशेन शतेन भागो हियते, लब्धाः सप्त, उपरिष्टादंशा उद्धरन्ति एकविंशं शर्त १२१, तस्य द्वाभ्यां भागे हृते लब्धाः षष्टिः सार्द्धाः सप्तानां च ऋतूनां षङ्गिर्भागे हते लब्ध एक एकः उपरिष्टात्तिष्ठति, आगतं - एकः संवत्सरोऽतिक्रान्त एकस्य च संवत्सरस्योपरि प्रथम ऋतुः प्रावृड्रामाऽतिगतो, द्वितीयस्य च षष्टिर्दिनान्यतिक्रान्तानि, एकषष्टितमं वर्त्तते इति, एव For Personal & Private Use Only १२ प्राभृते १२ प्राभृतप्राभृते ऋतुन्यूनाधिकराज्यधिकारः सू ७५ ॥२१० ॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy