________________
Jain Education International
| मन्यत्रापि भावना कार्या । अथैतेषां ऋतूनां मध्ये क ऋतुः कस्यां तिथौ समाप्तिमुपयातीति परस्य प्रश्नावकाशमाशय तत्परिज्ञानाय पूर्वाचार्यैरिदं करणमभाणि - "इच्छाउऊ बिगुणिओ रूवूणो विगुणिओ उ पद्माणि । तस्सद्धं होइ तिही | जत्थ समत्ता उऊ तीसं ॥१॥" अस्या गाथाया व्याख्या - यस्मिन् ऋतौ ज्ञातुमिच्छा (स इच्छतः ) स ऋतुर्भियते इत्यर्थः, ततः स द्विगुणितः क्रियते, द्वाभ्यां गुण्यते इति भावः, द्विगुणितः सन् रूपोनः क्रियते, ततः पुनरपि स द्वाभ्यां गुण्यते, गुणयित्वा च प्रतिराश्यते, द्विगुणितश्च सन् यावान् भवति तावन्ति पर्वाणि द्रष्टव्यानि तस्य च द्विगुणीकृतस्य प्रतिराशितस्यार्द्ध क्रियते, तच्चार्द्धं यावद्भवति तावत्यस्तिथयः प्रतिपत्तव्याः, यासु युगभाविनस्त्रिंशदपि ऋतवः समाप्ताः, समाप्तिमैयरुरिति करणगाथाक्षरार्थः । सम्प्रति भावना क्रियते किल प्रथम ऋतुर्ज्ञातुमिष्टो यथा युगे कस्यां तिथौ प्रथमः प्रावृडूलक्षण ऋतुः समाप्तिमुपयातीति ?, तत्र एको ध्रियते, स द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते रूपोने क्रियेते, जात एककः, स एव च भूयोऽपि द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते प्रतिराइयेते, नयोरर्द्धे जातमेकं रूपं, आगतं - युगादौ द्वे | पर्वणी अतिक्रम्य प्रथमायां तिथौ प्रतिपदि प्रथमऋतुः प्रावृनामा समाप्तिमगमत् तथा द्वितीये ऋतौ ज्ञातुमिच्छति द्वौ स्थाप्येते तयोर्द्वाभ्यां गुणने जाताश्चत्वारस्ते रूपोनाः क्रियन्ते जातास्त्रयस्ते भूयो द्वाभ्यां गुण्यन्ते जाताः षट् ते | प्रतिराइयन्ते प्रतिराशितानां चार्द्ध क्रियते जातास्त्रयः आगतं - युगादितः षट् पर्वाण्यतिक्रम्य तृतीयायां तिथौ द्वितीय ऋतुः समाप्तिमुपायात्, तथा तृतीये ऋतौ ज्ञातुमिच्छेति त्रयो प्रियन्ते ते द्वाभ्यां गुण्यन्ते जाताः पटू ते रूपोनाः क्रियन्ते जाताः पञ्च ते भूयो द्वाभ्यां गुण्यन्ते जाता दश ते प्रतिराश्यन्ते प्रतिराशितानां चार्चे लब्धाः पञ्च, आगतं - युगादित
For Personal & Private Use Only
www.jainelibrary.org