SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Jain Education International पर्व - पर्वसज्ञपानं नियमात् पञ्चदशसंगुणं कर्त्तव्यं, पर्वणां पञ्चदशतिथ्यात्मकत्वात् इयमत्र भावना - यद्यपि ऋतवः आषाढादिप्रभवास्तथापि युगं प्रवर्त्तते श्रावण बहुलपक्षप्रतिपद आरभ्य ततो युगादितः प्रवृत्तानि यानि पर्वाणि तत्सङ्ख्या पश्चदशगुणा क्रियते, कृत्वा च पर्वणामुपरि या विवक्षितं दिनमभिव्याप्य तिथयस्तास्तत्र सङ्क्षिप्यन्ते इत्यर्थः, ततो 'बावट्ठीभागपरिहीणं' ति प्रत्यहोरात्रमेकैकेन द्वाषष्टिभागेन परिहीयमाणेन ये निष्पन्ना अवमरात्रास्तेऽप्युपचारात् द्वाषष्टिभागास्तैः परिहीनं पर्वसङ्ख्यानं कर्त्तव्यं, ततो 'दुगुणे 'ति द्वाभ्यां गुण्यते, गुणयित्वा च एकषष्ट्या युतं क्रियते, ततो द्वाविंशेन शतेन भाजिते सति यल्लब्धं तस्य षह्निर्भागे हृते यच्छेषं स ऋतुरनन्तरातीतो भवति, येऽपि चांशाः शेषा उद्धरितास्तेषां द्वाभ्यां भागे हृते यल्लब्धं ते दिवसाः प्रवर्त्तमानस्य ऋतोर्ज्ञातव्याः, एष करणगाथाक्षरार्थः । सम्प्रति करणभावना क्रियते, तत्र युगे प्रथमे दीपोत्सवे केनापि पृष्टं - कः सूर्यसुरनन्तरमतीतः १, को वा सम्प्रति वर्त्तते १ तत्र युगादितः सप्त पर्वाण्यभिकान्तानीति सप्तभियंते, तानि पञ्चदशभिर्गुण्यन्ते, जातं पश्चोत्तरं शतं एतावति च काले द्वाववमात्रावभूतामिति द्वौ ततः पात्येते स्थितं पश्चायुत्तरं शतं १०३, तत् द्वाभ्यां गुण्यते, जाते द्वे शते षडुत्तरे २०६, तत्रैकषष्टिः प्रक्षिप्यते, जाते द्वे शते सप्तषष्ट्यधिके २६७, तयोर्द्वाविंशेन शतेन भागो हियते, लब्धौ द्वौ तौ षट्र्भािगं न सहेते इति न तयोः पद्मिर्भागहारः, शेषास्त्वंशा उद्धरन्ति त्रयोविंशतिः, तेषामर्द्धे जाता एकादश अर्द्ध च, सूर्यर्त्तश्चाषाढादिकस्ततः आगतं - | द्वावृतू अतिक्रान्तौ तृतीयश्च ऋतुः सम्प्रति वर्त्तते, तस्य च प्रवर्त्तमानस्य एकादश दिवसा अतिक्रान्ता द्वादशो वर्त्तते इति, तथा युगे प्रथमायामक्षयतृतीयायां केनापि पृष्टं - के ऋतवः पूर्वमतिक्रान्ताः १ को वा सम्प्रति वर्त्तते ?, तत्र प्रथ For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy