________________
+
5
+5
कमद्धा षट्पश्चाशदधिकशतकृत्वः क्रियते, कृत्वा च द्वादशभिर्भग्यते, द्वादशभिश्च भागे हृते चतुश्चत्वारिंशदधिकसप्तश-13 तसङ्ख्याः ७४४ एतेऽभिवर्द्धितसंवत्सराः, अशीत्यधिकसप्तशतसङ्ख्याः ७८० एते आदित्यसंवत्सराः, त्रिनवत्यधिकसप्तश| तसङ्ख्याः ७९३ एते ऋतुसंवत्सराः, षडुत्तराष्टशतसङ्ख्या ८०६ एते चन्द्रसंवत्सराः, एकसप्तत्यधिकाष्टशतसङ्ख्या ८७१ नक्ष
संवत्सराः, तदा णमिति वाक्यालङ्कारे एतेऽभिवर्द्धितादित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आ| ख्याता इति वदेत् , अर्वाक् कस्यापि कतिपयमासाधिकत्वेन युगपत्सर्वेषां समपर्यवसानत्वासम्भवात् । सम्प्रति यथोतमेव चन्द्रसंवत्सरपरिमाणं गणितभेदमधिकृत्य प्रकारद्वयेनाह-ता नयट्ठयाए'इत्यादि, ता इति पूर्ववत्, नयार्थतयापरतीथिकानामपि सम्मतस्य नयस्य चिन्तया चन्द्रसंवत्सरस्त्रीण्यहोरात्रशतानि चतुष्पञ्चाशदधिकानि द्वादश च द्वापष्टिभागा अहोरात्रस्येत्यादिराख्यात इति वदेत, याथातथ्येन पुनश्चिन्त्यमानश्चन्द्रसंवत्सरस्त्रीणि रात्रिन्दिवशतानि चतुष्पचाशदधिकानि पञ्च च मुहूर्ता एकस्य च मुहूर्तस्य पञ्चाशद् द्वापष्टिभागा इत्येवंप्रमाण आख्यात इति वदेत्, तत्राहोरात्रपरिमाणमुभयत्रापि तावदेकरूपं, ये तूपरितना द्वादश द्वापष्ट्रिभागा रात्रिन्दिवस्य ते मुहूर्त्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि ३६०, तेषां द्वाषट्या भागो हियते, लब्धाः पञ्च मुहूर्ताः, शेषास्तिष्ठन्ति पञ्चाशन्मुइतस्य द्वाषष्टिभागा इति । तदेवं संवत्सरवक्तव्यता सप्रपञ्चमुक्ता, साम्प्रतं ऋतुवक्तव्यतामाह___ तत्थ खलु इमे छ उडू पं० त०-पाउसे वरिसारत्ते सरते हेमंते वसंते गिम्हे, ता सवेवि णं एते चंद्उडू दुवे |२ मासाति चउप्पण्णेणं २ आदाणेणं गणिजमाणा सातिरेगाइं एगूणसहिर राइंदियाई राइंदियग्गेणं आहि
*
5
+
*
*
*
Jain Education International
For Personal &Private Use Only
www.jainelibrary.org