________________
सूर्यप्रज्ञतिवृत्तिः
( मल० )
॥२०८॥
Jain Education International
वसाने किमुक्तं भवति। - एते चन्द्रसूर्य संवत्सरा विवक्षितस्यादौ समाः - समप्रारम्भप्रारब्धाः सन्तस्तत आरभ्य षष्टियुगपर्यवसाने समपर्यवसाना भवन्ति, तथाहि - एकस्मिन् युगे त्रयश्चन्द्रसंवत्सरा द्वौ चाभिवर्द्धितसंवत्सरौ तौ च प्रत्येकं त्रयोदशचन्द्रमासात्मकौ, ततः प्रथमयुगे पश्च चन्द्रसंवत्सरा द्वौ च चन्द्रमासौ, द्वितीये युगे दश चन्द्रसंवत्सराश्चत्वारश्चन्द्रमासाः एवं प्रतियुगं मासद्विकवृद्ध्या षष्ठयुगपर्यन्ते परिपूर्णा एकत्रिंशश्चन्द्रसंवत्सरा भवन्ति, 'ता कया ण' मित्यादि, ता इति पूर्ववत् कदा णमिति वाक्यालङ्कारे आदित्यऋतु चन्द्रनक्षत्र संवत्सराः समादिकाः समपर्यवसिता आख्याता इति वदेत् ?, भगवानाह - 'ता सट्ठी' इत्यादि, षष्टिरेते एकयुगान्तवर्त्तिनः आदित्यमासा एकषष्टिरेते ऋतुमासाः द्वाषष्टिरेते चन्द्र- 4 मासाः सप्तषष्टिरेते नक्षत्रमासाः, एतावती प्रत्येकमद्धा द्वादशकृत्वः कृता द्वादशभिर्गुणिता इत्यर्थः तदनन्तरं संवत्सरानयनाय द्वादशभिर्भक्ता तत एवमेते षष्टिरादित्यसंवत्सरा एकषष्टिरेते ऋतुसंवत्सराः द्वाषष्टिरेते चन्द्रसंवत्सरा सप्तषष्टि| रेते नक्षत्रसंवत्सरास्तदा - द्वादशयुगातिक्रमे इत्यर्थः एते आदित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याता इति वदेत् एतदुक्तं भवति - विवक्षितयुगस्यादावेते चत्वारोऽपि समाः- समारब्धप्रारम्भाः सन्तस्तत आरभ्य द्वादशयुगपर्यन्ते समपर्यवसाना भवन्ति, अर्वाक् चतुर्णामन्यतमस्यावश्यंभावेन कतिपयमा सानामधिकतया युगपत् सर्वेषां समपर्यवसानत्वासम्भवात्, 'ता कयां ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - 'ता सत्तावण्ण' मित्यादि, सप्तपञ्चाशन्मासाः | सप्त अहोरात्रा एकादश मुहूर्त्ता एकस्य च मुहूर्त्तस्य त्रयोविंशतिद्वषष्टिभागा एतावत्प्रमाणा एते एकयुगान्तर्वर्तिनोऽभि - वर्द्धितमासाः पष्टिरेते सूर्यमासाः एकषष्टिरेते ऋतुमासा द्वाषष्टिरेते चन्द्रमासाः सप्तषष्टिरेते नक्षत्रमासाः, एतावती प्रत्ये
For Personal & Private Use Only
१२ प्राभृते २२ प्राभृतप्राभृते सूर्यादीनामांद्यनूसाम्यं सू ७४
॥२०८॥
www.jainelibrary.org