________________
द्वषष्टिभागास्तेभ्यः षट्चत्वारिंशत् शुद्धाः स्थिताः पश्चात् षड्विंशतिः, नवोत्तराच्च मुहूर्त्तशतात् त्रिंशता पुष्यः शुद्धः, स्थिताः पश्चादेकोनाशीतिः, ततोऽपि पञ्चदशभिर्मुहूत्रश्लेषा शुद्धा, स्थिता पञ्चाच्चतुःषष्टिः, ततोऽपि त्रिंशता मघाः शुद्धाः, स्थिता चतुस्त्रिंशत्, ततोऽपि त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चात् चत्वारः, उत्तरफाल्गुनीनक्षत्रं द्व्यर्द्धक्षेत्रमिति पञ्चचत्वारिंशन्मुहूर्त्त प्रमाणं, तत इदमागतं - उत्तरफाल्गुनीनक्षत्रस्य चन्द्रयोगमुपागतस्य चत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्त्तस्य पश्चत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य पञ्चषष्टौ चूर्णिकाभागेषु शेषेषु द्वितीयामा - वास्या समाप्तिं याति । सम्प्रति अस्यामेव द्वितीयस्याममावास्यायां सूर्यनक्षत्रं पृच्छति - 'तं समयं च णमित्यादि, सुगमं, | भगवानाह - 'ता उत्तराहि' इत्यादि, ता इति पूर्ववत्, उत्तराभ्यामेव फाल्गुनीभ्यां युक्तः सूर्यो द्वितीयाममावास्यां परिसमापयति, तदानीं च द्वितीयामावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गुन्याः 'तहेव जहा चंदस्स'त्ति यथा चन्द्रस्य विषये उक्तं तथैवात्रापि विषये वक्तव्यं, तद्यथा - 'चत्तालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छत्ता पण्णडि चुण्णिआ भागा सेसा' इति एतच्चोभयोरपि चन्द्रसूर्ययोर्नक्षत्रयोः परिज्ञानहेतोः करणस्य समानत्वादवसेयम् । तृतीयामावास्याविषयं प्रश्नसूत्रमाह - 'ता एएसि णमित्यादि, सुगमं, भगवानाह - 'ता हत्थे ' इत्यादि, हस्तेन युक्त|श्चन्द्रस्तृतीयामावास्यां परिसमापयति, तदानीं हस्तस्य चत्वारो मुहर्त्तात्रिंशश्च द्वाषष्टिभागा मुहूर्त्तस्य द्वापष्टिभागं चैकं सप्तषष्टिधा छित्त्वा तस्य सत्काश्चतुःषष्टिश्चूर्णिकाभागाः शेषाः, तथाहि - स एव ध्रुवराशिः ६६ । ५ । १ । तृतीयस्या | अमावास्यायाः सम्प्रति चिन्तेति त्रिभिर्गुण्यते, जातमष्टानवत्यधिकं शतं मुहूर्त्तानामेकस्य च मुहूर्त्तस्य पश्चदश द्वाषष्टि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org