________________
दशमुहूर्त्ता रात्रिर्भवति, द्वाभ्यां मुहूर्त्तेकषष्टिभागाभ्यामधिको द्वादशमुहूर्त्तप्रमाणो दिवसः, ततस्ततोऽपि द्वितीयान्मण्ड:लादभ्यन्तरं स सूर्यः प्रविशन् द्वितीयस्य षण्मासस्य द्वितीये अहोरात्रे 'बाहिरं तच्चं 'ति सर्वबाह्यान्मण्डलादर्वानं तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति 'ता जया णमित्यादि, ततो यदा णमितिपूर्ववत्, सूर्यः सर्वबाह्यान्मण्डलादर्वाकनं तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति 'ता जया णमित्यादि ततो यदा णमिति पूर्ववत् सूर्यः सर्वबाह्यान्मण्डलादर्वाक्तनं तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा अष्टादशमुहूर्त्ता रात्रिश्चतुर्भिः 'एगट्टिभागमुहुत्तेहिं ति प्राकृतत्वाद व्यत्यासेन पदोपन्यासः, एवं तु यथास्थितपदनिर्देशो द्रष्टव्यो- मुहूत्तै कषष्टिभागैरुना भवति, चतुर्भिर्मुहूर्त्तकषष्टिभागैरधिको द्वादशमुहूर्त्ता दिवसः । ' एवं खलु एएण' मित्यादि, एवं उक्तनीत्या खल्वेतेन - अनन्तरोदितेनोपायेन प्रतिमण्डलं रात्रि दिवस विषय मुहूत्तैकषष्टिभागद्वयहानिवृद्धिरूपेण प्रविशन् मण्डलपरिभ्रमणगत्या शनैः शनैरुत्तराभिमुखं गच्छन् 'तयाणंतराउ'त्ति तस्माद्विवक्षितान्मण्डलात् ' तयानंतर' मिति तद्विवक्षितमनन्तरं मण्डलं सङ्क्रामन् २ एकैकस्मिन् मण्डले मुहूर्त्तस्य द्वौ द्वावेकषष्टिभागौ रजनिक्षेत्रस्य निर्वेष्टयन् दिवसक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्त्तस्यैकषष्टिभागी अभिवर्द्धयन् २ त्र्यशीत्यधिकशततमे अहोरात्रे द्वितीयषण्मासपर्यवसानभूते 'सङ्घभंतरं 'ति सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति, 'ता' इति ततो यदा यस्मिन् काले णमिति पूर्ववत् सूर्यः सर्व बाह्यान्मण्डलान्मण्डलपरिभ्रमणगत्या शनैः शनैरभ्यन्तरं प्रविश्य सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा सर्व बाह्यमण्डलं 'प्रणिधाय' मर्यादीकृत्य तदर्वा - | कनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि षट्षष्टानि - षट्षष्ट्यधिकानि मुहूर्त्त -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org