SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः ( मल० ) ॥ १५ ॥ स्यैकषष्टिभागशतानि रजनिक्षेत्रस्य निर्वेष्ट्य- हापयित्वा दिवसक्षेत्रस्य च तान्येव त्रीणि षट्षष्टानि मुहूर्तैकषष्टिभागशतानि अभिवर्द्धा चारं चरति, तदा णमिति वाक्यालङ्कारे उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्त उत्कर्षकः - उत्कृष्टोऽष्टादश मुहूर्त्तो दिवसो भवति जघन्या च द्वादशमुहूर्त्ता रात्रिः, एतद् द्वितीयं षण्मासं, यदिवा एषा द्वितीया षण्मासी, सूत्रे पुंस्त्वनिर्देश आर्षत्वात् एष षट्षष्ट्यधिकत्रिशततमोऽहोरात्रो द्वितीयस्य षण्मासस्य पर्यवसानभूतः, 'एष' एवंप्रमाण आदित्य संवत्सरा, एष षट्षष्ट्यधिकत्रिशततमोऽहोरात्रः 'आदित्यस्य' आदित्यसम्बन्धिनः संवत्सरस्य पर्यवसानम् । सम्प्रत्युपसंहारमाह'इइ खलु तस्सेव' मित्यादि, यस्मादेवं 'इति' तस्मात्कारणात्तस्यादित्यस्य - आदित्य संवत्सरस्य मध्ये 'एवं उनकेन प्रकारेण 'सकृद्' एकवारमष्टादशमुहूर्तो दिवसो भवति सकृच्चाष्टादशमुहूर्त्ता रात्रिः, तथा सकृद् द्वादशमुहूत्तों दिवसो भवति सकृच्च द्वादशमुहूर्त्ता रात्रिः, तत्र प्रथमे षण्मासे अस्त्यष्टादशमुहूर्त्ता रात्रिः, सा च प्रथमषण्मासपर्यवसानभूतेऽहोरात्रे, नत्वष्टादशमुहूर्त्ता दिवसः, तथा अस्ति तस्मिन्नेव प्रथमे षण्मासे द्वादशमुहूर्त्ती दिवसः, सोऽपि प्रथमषण्मासपर्यवसानेऽहोरात्रे, | नतु द्वादशमुहूर्त्ता रात्रिः, द्वितीये षण्मासेऽस्त्येतद् यदुत अष्टादशमुहूर्त्ता दिवसो भवति, स च द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे नस्वष्टादशमुहूर्त्ता रात्रिः, तथा अस्त्येतत् यदुत तस्मिन्नेव द्वितीयषण्मासे अस्ति द्वादशमुहर्त्ता रात्रिः, साऽपि तस्मिन्नेव द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे, न पुनरस्त्येतत् यदुत द्वादशमुहूर्त्ता दिवसो भवतीति, तथा प्रथमे वा षण्मासे नास्त्येतत् यदुत पञ्चदश मुहूर्ती दिवसो भवति, नाप्यस्त्येतत् यदुत पञ्चदशमुहूर्त्ता रात्रिः, किं सर्वथा नेत्याह - नान्यत्र - रात्रिन्दिवानां वृध्यपवृद्धेरन्यत्र न भवति, रात्रिन्दिवानां तु वृद्ध्यपवृद्धौ च भवत्येव पश्चदशमुहूर्त्ता रात्रिः पञ्चदशमुत्तों दिवसः, ते च वृद्धय Jain Education International For Personal & Private Use Only १ प्राभृते १ प्राभूत• प्राभृतं ।। १५ ।। www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy