________________
*555545555
मासी परिसमापयति । सम्प्रति द्वादश्यां पौर्णमास्यां चन्द्रनक्षत्रयोगं पृच्छति 'ता एएसि ण'मित्यादि सुगम, भगवानाह-'ता उत्तराहि'इत्यादि, ता इति पूर्ववत्, उत्तराभ्यामाषाढाभ्यां द्वादशी पौर्णमासी चन्द्रः परिसमापयति, तदानीं च तयोरुत्तरयोराषाढयोः षड्विंशतिर्मुहर्ता एकस्य च मुहूर्तस्य षड्विंशतिषष्टिभागा एकं च द्वाषष्टिभागं सप्तपष्टिधा छित्त्वा तस्य सत्काश्चतुःपञ्चाशचूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिः ६६।५।१।द्वादशी किल पौर्णमासी चिन्त्यते इति द्वादशभिर्गुण्यते, जातानि सप्त शतानि द्विनवत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य पष्टिकष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः ७९२ । ६०।१२। तत एतस्मात् 'मूले सत्तेव बायाला' * इत्यादिवचनात्, सप्तभिश्च द्विचत्वारिंशदधिकैर्मुहूर्तानां शतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य
च द्वापष्टिभागस्य षषष्ट्या सप्तपष्टिभागैरभिजिदादीनि मूलपर्यन्तानि नक्षत्राणि शुद्धानि, ततस्त्रिंशता मुहूर्तेः पूर्वाषाढा, शेष तिष्ठन्ति अष्टादश मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तपष्टिभागाः १८ । ३५ । १३ तत आगतं चन्द्रेण युक्तमुत्तराषाढानक्षत्रं द्वादशी पौर्णमासी पइविंशतौ मुहूर्तेष्वेकस्य च मुहूतस्य षविंशतौ द्वापष्टिभागेष्वेकस्य चद्वापष्टिभागस्य चतुःपञ्चाशति सप्तपष्टिभागेषु शेषेषु परिसमापयति । सम्प्रत्यस्यामेव द्वादश्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति-तं समयं च ण'मित्यादि, सुगम, भगवानाह-ता पुणवसुणा इत्यादि, ता इति पूर्ववत्, पुनर्वसुना युक्तः सूर्यः परिसमापयति, तदानीं च-द्वादशीपौर्णमासीपरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य षोडश मुहूर्त्ता अष्टौ च द्वाषष्टिभागा मुहूर्तस्य एकं च द्वापष्टिभागं सप्तपष्टिधा छित्त्वा तस्य सत्का विंशतिश्चूर्णिका भागाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org