________________
सूर्यप्रज्ञशिवृत्तिः ( मल० )
॥ १८९॥
| शेषाः, तथाहि-- स एव ध्रुवराशिः ६६ । ५ । १ । द्वादशभिर्गुण्यंते, जातानि सप्त शतानि द्विनवत्यधिकानि मुहूर्त्ताना| मेकस्य च मुहूर्त्तस्य षष्टिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः ७९२ । ६० । १२, तत एतस्मापुष्यशोधनकं १९ । ४३ । ३३ पूर्वोक्तप्रकारेण शोध्यते, स्थितानि पश्चात्सप्त शतानि त्रिसप्तत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य षोडश द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत् सप्तषष्टिभागाः ७७३ । १६ । ४६, ततः एतस्मात्सप्तभिः शतैश्चतुश्चत्वारिंशदधिकैर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या | सप्तषष्टिभागैरश्लेषादीनि आर्द्रापर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते अष्टाविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य त्रिपञ्चाशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत् सप्तषष्टिभागाः २८ । ५३ । ४७ । तत आगतं पुनसुनक्षत्रं सूर्येण सह योगमुपागतं षोडशसु मुहूर्त्तेषु शेषेषु एकस्व च मुहूर्त्तस्याष्टसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टिभागेषु शेषेषु द्वादशीं पौर्णमासी परिसमापयति, ( साम्प्रतमस्यामेव द्वाषष्टितमायां पौर्णमास्यां चन्द्रनक्षत्रयोगं पृच्छति ) - 'ता एएसि ण'मित्यादि सुगमं, भगवानाह - 'ता उत्तराहिं' इत्यादि, ता ( इति प्राग्वत् ) उत्तराभ्याभाषाढाभ्यां युक्तश्चन्द्रश्वरमां द्वाषष्टितमां पौर्णमासी परिणमयति, तदानीं च चरमद्वाषष्टितमपौर्णमासीपरिसमाप्ति वेलायामुत्तरयोराषाढयोश्वरमसमयः, तथाहि स एव ध्रुर्वराशिः ६६ । ५ । १ । चरमा द्वाषष्टितमा पौर्णमासी सम्पति चिन्त्यमाना वर्त्तते इति द्वाषष्ट्या गुण्यते, जातानि मुहूर्त्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहूर्त्तस्य द्वाषष्टिभागानां त्रीणि शतानि दशोत्तराणि एकस्य च द्वाषष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः ४०९२ । ३१० । ६२ तत एतस्माद्, 'अट्ठसयउगु
Jain Education International
For Personal & Private Use Only
१० प्राभृते२२ प्राभृतप्राभृते पूर्णिमामा
वास्याः
सू ६७
॥ १८९॥
www.jainelibrary.org