________________
पुष्यशोधनकस्य कथमुत्पत्तिरिति, उच्यते, इह पूर्वयुगपरिसमाप्तिवेलायां पुष्यस्य त्रयोविंशतिः सप्तषष्टिभागाः परिसमापाश्चत्वारिंशदवतिष्ठन्ति, ततस्ते चतुश्चत्वारिंशत्सप्तषष्टिभागा मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि १३२०, तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा एकोनविंशतिर्मुहूर्ताः, शेषास्तिष्ठन्ति सप्तचत्वारिंशत् ४७, ते (च)द्वाषष्टिभागानयनार्थ द्वाषष्ट्या गुण्यन्ते, जातानि एकोनत्रिंशच्छतानि चतुर्दशोत्तराणि २९१४, तेषां सप्तषष्ट्या भागो | ह्रियते, लब्धास्त्रिचत्वारिंशद् द्वापष्टिभागाः३, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत्सप्तपष्टिभागाः३३, एतद् ध्रुवराशेः शोध्यते, तद्यथा-षट्पष्टेर्मुहूर्तेभ्यः एकोनविंशतिर्मुहूर्ताः शुद्धाः स्थिताः पश्चात्सप्तचत्वारिंशत्तेभ्य एको मुहूर्तो गृह्यते स्थिताः षट्चत्वारिंशद्, गृहीतस्य च मुहर्तस्य द्वाषष्टिभागाः कृत्वा द्वापष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते, जाता द्वाषष्टिभागाः सप्तषष्टिस्तेभ्यस्त्रिचत्वारिंशत् शोध्यन्ते स्थिताः पश्चाच्चतुर्विशतिस्तेभ्यः एकरूपमुपादीयते जाता त्रयोविंशतिः गृहीतस्य च रूपस्य सप्तषष्टिभागाः क्रियन्ते कृत्वा च सप्तषष्टिभागेकमध्ये प्रक्षिप्यन्ते जाता अष्टषष्टिः सप्तषष्टिभागास्तेभ्यस्त्रयस्त्रिंशत् शुद्धाः स्थिताः पञ्चत्रिंशत् , ततः पञ्चदशमुहूत्रश्लेषा त्रिंशता च मुहूर्तमघा शुद्धा, स्थितः पश्चादेको मुहूर्त एकस्य च मुहूर्तस्य त्रयोविंशतिषिष्टिभागा एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः।१।२३ । ३५॥ | तत आगतं-पूर्वफाल्गुनीनक्षत्रस्याष्टाविंशप्तौ मुहूर्तेषु एकस्य च मुहूर्त्तस्याष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभा-II | गस्य द्वात्रिंशति सप्तपष्टिभागेषु शेषेषु सूर्यः प्रथमां पौर्णमासी परिसमापयति, एते च सूर्यमुहूर्ताः, एवंभूतैश्च सूर्यमुहूर्तेखिंशता त्रयोदश रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वादश व्यावहारिका मुहूर्ता भवन्ति, तत एतदनुसारेण गते
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org