________________
ॐARANA
लगतस्त्रिंशदधिकाष्टादशशततमो भागो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां गम्यते, तथाहि-तानि मण्डलगतानि त्रिंशदधिकान्यष्टादशशतानि भागानां द्वाभ्यां सूर्याभ्यामेकेनाहोरात्रेण गम्यते, अहोरात्रश्च त्रिंशन्मुहूर्त्तप्रमाणः, ततः सूर्यद्वयापेक्षया षष्टिर्मुहूर्त्ता लभ्यन्ते ततस्त्रैराशिककर्मावकाशः, यदि षट्या मुहूर्तरष्टादश शतानि त्रिंशदधिकानि मण्डलस्य भागानां गम्यते तत एकेन मुहूर्तेन किं गम्यते !, राशित्रयस्थापना-। ६० । १८३० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनाजातानि तान्येवाष्टादश शतानि त्रिंशदधिकानि तेषामाद्यनराशिना षष्टिलक्षणेन भागो ह्रियते लब्धाः सार्धास्त्रिंशद्भागाः, एतावन्मुहूर्तेन गम्यते, मुहूर्त्तश्चैकषष्टिभागीक्रियते तत आगतमेको भागो द्वाभ्यां मुहू कषष्टिभागाभ्यां गम्यते, यदिवा यदि व्यशीत्यधिकेनाहोरात्रशतेन षट् मुहूर्त्ता हानौ वृद्धौ वा प्राप्यन्ते तत एकेनाहोरात्रेण
किं प्राप्यते ?, राशित्रयस्थापना-। १८३ । ६।१। अत्रान्त्येन राशिना एककलक्षणेन मध्यराशि ण्यते, जातास्त एव भाषद्, तेषां ध्यशीत्यधिकेन शतेन भागहरणं, अनोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते ततश्छेद्यच्छेदकराश्योस्त्रिकेनाप
वर्त्तना, जात उपरितनो राशिर्द्विकरूपोऽधस्तन एकषष्टिरूपः, आगतं द्वावेकषष्टिभागौ मुहूर्तस्य एकस्मिन्नहोरात्रे वृद्धौ हानौ वा प्राप्यते इति, तथा 'ता'इति तस्माद् द्वितीयान्मण्डलान्निष्क्रामन् सूर्यों द्वितीये अहोरात्रे सर्वाभ्यन्तरं मण्डलमपेक्ष्य तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति, "ता जया ण' मित्यादि, तत्र यदा तस्मिन्सर्वाभ्यन्तरं मण्डलमवेक्ष्य तृतीये मण्डले उपसङ्क्रम्य चार चरति तदा चतुर्भिर्मुहूर्त्तस्यैकषष्टिभागैीनोऽष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, चतुर्भिर्मुहूर्त्त-18 स्यैकषष्टिभागैरधिका द्वादशमुहूर्तप्रमाणा रात्रिः, एवमुक्तनीत्या 'खलु'निश्चितमेतेनानन्तरोदितेनोपायेन प्रतिमण्डलं
तिद्वावेकपा द्वितीये अन्तरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org