________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०) ॥१३॥
१प्राभृते १प्राभृतप्राभृतं
ASSSSSSSSS
ठिए वट्टे रहचक्कवालसंठाणसंठिए वद्दे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसठिए जोयणसयसहस्समायामविक्खंभेणं तिन्नि जोयणसयसहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे अठ्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते इति, अत्र 'सबखुड्डाग'त्ति सर्वेभ्योऽप्यन्येभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको-लघुरायामविष्कम्भाभ्यां योजनलक्षप्रमाणत्वात् , शेषं प्रायः सुगम परिधिपरिमाणं गणितं च क्षेत्रसमासटीकातः परिभावनीयं, 'ता'इति ततो यदा णमिति पूर्ववत्, सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चारं चरति तदा णमिति प्राग्वत् उत्तमकाष्ठाप्राप्तोऽत्र काष्ठाशब्दः प्रकर्षवाची परमप्रकर्षप्राप्तो यतः परमन्योऽधिको न भवति स इत्यर्थः, 'उक्कोस'त्ति उत्कर्षतीत्युत्कर्षः उत्कर्ष एवोत्कर्षका उत्कृष्ट इत्यर्थः, अष्टादशमहत्तॊ दिवसो भवति, तस्मिन्नेव च सोभ्यन्तरे मण्डले सूर्ये चारं चरति जघन्या-सर्वलध्वी द्वादशमुहूर्त्ता रात्रिः, एषोऽहोरात्रः पाश्चात्यस्य सूर्यसंवत्सरस्य पर्यवसानं, ततः स सूर्यस्तस्मात्सर्वाभ्यन्तरान्मण्डलान्निष्क्रामन् नवं सूर्यसंवत्सरमाददानः-प्रवर्त्तमानः प्रथमे अहोरात्रे "अभितरानंतर'|न्ति सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति ततो यदा सूर्योऽभ्यन्तरानन्तरं-सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा अष्टादशमहत्तॊ दिवसो द्वाभ्यां मुहूर्त्तकषांष्टभागाभ्यामूना भवति, द्वाभ्यां च मुहत्तैकषष्टिभागाभ्यामधिका द्वादशमुहर्ता रात्रिः, कथमेतदवसीयते इति चेत् ?, उच्यते, इहक मण्डलमेकेनाहोरात्रेण द्वाभ्यां सूर्याभ्यां परिसमाप्यते, एकैकश्च सूर्यः प्रत्यहोरात्र मण्डलस्य त्रिंशदधिकोऽष्टादशशतसङ्ख्यान् |भागान् परिकल्प्य एकैकं भागं दिवसक्षेत्रस्य रात्रिक्षेत्रस्य वा यथायोग्यं हापयिता वर्द्धयिता वा भवति, स चैको मण्ड
345455541511%
॥१३॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org