________________
राई भवति णत्थि रातिंदियाणं बोबडीए मुहुत्ताण वा चयोवचएणं, णण्णत्थ वा अणुवा यगेईए, गाधाओ भाणितवाओ (सूत्रं ११ ) पढमस्स पाहुडस्स पढमं पाहुड पाहुडं ॥ १-१॥
'जइ खलु' इत्यादि, यदि खलु षट्षष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणायामद्धायां द्व्यशीतं मण्डलशतं द्विकृत्वश्चरति द्वे च मण्डले एकैकं वारमिति तत एवं सति यदेतद्भगवद्भिः प्ररूप्यते, तस्य षट्षष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणस्य सूर्यसंव(सरस्य मध्ये सकृद् एकवारमष्टादश मुहूर्त्तप्रमाणो दिवसो भवति, सकृच्चाष्टादशमुहूर्त्ता रात्रिः, तथा सकृद्-एकवारं द्वादशमुहर्त्ता दिवसो भवति सकृच्च द्वादशमुहूर्त्ता रात्रिः, तत्रापि षण्मासे प्रथमेऽस्ति अष्टादश मुहूर्त्ता रात्रिर्नत्वष्टादशमुहूर्त्ता दिवसः, तथा अस्ति तस्मिन्नेव प्रथमे षण्मासे द्वादशमुहूर्त्ता दिवसो न तु द्वादशमुहूर्त्ता रात्रिः, द्वितीये षण्मासेऽस्त्यष्टादश मुहूर्त्तो दिवसो नत्वष्टादशमुहूर्त्ता रात्रिः, तथा अस्ति तस्मिन्नेव द्वितीये पण्मासे द्वादशमुहूर्त्ता रात्रिर्नतु द्वादशमुहूर्खो दिवसः, तथा प्रथमे षण्मासे द्वितीये वा षण्मासे नास्त्येतत् यदुत - पञ्चदशमुहूर्त्तोऽपि दिवसो भवति, नाप्यस्त्येतत् यदुत पञ्चदशमुहूर्त्ता रात्रिरिति, तत्र एवंविधे वस्तुतत्त्वावगमे को हेतुः ? - किं कारणं कया युक्त्या एतत्प्रतिपत्तव्यमिति भावार्थः, 'इति वदे' दिति, अत्रार्थे भगवान् प्रसादं कृत्वा वदेत् । अत्र प्रतिवचनमाह-'ता अयण्ण' मित्यादि, 'अयं' प्रत्यक्षत उपलभ्यमानो णमिति वाक्यालङ्कारे 'जम्बूद्वीपो जम्बूद्वीपनामा द्वीपः, स च सर्वेषां द्वीपसमुद्राणां सर्वाभ्यन्तरः- सर्वमध्यवर्त्ती सर्वेषामपि शेषद्वीपसमुद्राणामित आरभ्य यथागमोक्तक्रमद्विगुणविष्कम्भतया भवनात् 'जाव परिक्खेवेणं पनन्ते' इति, अत्र यावच्छन्दोपादानादिदमन्यद् प्रन्धान्तरे प्रसिद्धं सूत्रमवगन्तव्यं 'सबक्खुड्डागे वट्टे तेल्लापूय संठाणसं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org