________________
A
+S
कानि ३६६०, एकैकस्मिन्नहोरात्रे किल त्रिंशन्मुहूर्त्ता इति प्रत्येकमेतेषु षष्ट्यधिकषट्त्रिंशच्छतसङ्ख्येषु भागेषु त्रिंशद्भागकल्पनायां त्रिंशता गुण्यन्ते, जातमेकं शतसहस्रमष्टानवतिः शतानि १०९८००, तत इत्थं मण्डलस्य भागान् परिकल्प्य भगवान् प्रतिवचनं ददाति-'ता'इति तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्येऽस्तीति निपातत्वादापत्वाद्वा स्तस्ते नक्षत्रे ययोः प्रत्येकं षट् शतानि त्रिंशानि-त्रिंशदधिकानि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः-सीमापरिमाणं, तथाऽस्तीति सन्ति तानि नक्षत्राणि येषां प्रत्येक पञ्चोत्तरं सहस्रं सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, सन्ति तानि नक्षत्राणि येषां प्रत्येकं द्वे सहने दशोत्तरे सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, सन्ति तानि नक्षत्राणि येषां प्रत्येकं त्रीणि सहस्राणि । पञ्चदशोत्तराणि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, एवं भगवता सामान्येनोक्के भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति-ता एएसि 'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये कतराणि तानि नक्षत्राणि येषां षट् शतानि त्रिंशानि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, 'तं चेव उच्चारेयचंति तदेवानन्तरोक्तमुक्तप्रकारेणोच्चारयितव्यं, तद्यथा-'कयरे नक्खत्ता जेसिं सहस्सं पंचोत्तरं सत्तट्ठिभागतीसइभागाणं सीमाविक्खंभो, कयरे नक्खत्ता जेसिं दो सहस्सा दसुत्तरा सत्तट्ठिभागातीसइभागाणं सीमाविक्खंभो'इति, चरमंतु सूत्रं साक्षादाह|'कयरे नक्खत्ता'इत्यादि, एतानि त्रीण्यपि सूत्राणि सुगमानि (च), भगवानाह-'ता एएसि 'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां षट् शतानि त्रिंशानि सप्तपष्टिभागत्रिंशद्भागानां सीमाविष्कम्भः ते द्वे अभिजिन्नक्षत्रे, कथमेतदवसीयते इति चेत् , उच्यते, इह एकैकस्याभिजितो नक्षत्रस्य सप्तपष्टि
+
+
+
+G
Jain Education
anal
For Personal & Private Use Only
Munjainelibrary.org