________________
सूर्यप्रज्ञ
तिवृत्तिः (मल.)
१.प्राभृते २२प्राभृत
प्राभूते नक्षत्रसीमाविष्कंभादि सू११-१२
॥१७८॥
RESSES
खण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्का एकविंशतिर्भागाश्चन्द्रयोगयोग्याः, एकैकस्मिंश्च भागे त्रिंशद्भागपरिकल्पनादेकविंशतिस्त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येकं पञ्चोत्तरं सहस्रं सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः तानि द्वादश, तद्यथा-वे शतभिषजौ 'जाव दो जेट्टाउ'त्ति यावच्छब्दकरणादेवं द्रष्टव्यं-'दो भरणीओ दो अदाओ दो अस्सेसाओ दो साईओ दो जेठाओ इति, तथाहि-एतेषां द्वादशानामपि नक्षत्राणां प्रत्येक सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः सा स्त्रयस्त्रिंशद्भागाश्चन्द्रयोगे योग्यास्ततस्त्रयस्त्रिंशत् त्रिंशता गुण्यते जातानि नव शताति नवत्यधिकानि.९९०, अर्द्धस्थापि च त्रिंशता गुणयित्वा द्वाभ्यां भागे हृते लब्धाः पञ्चदश १५, सर्वसङ्ख्यया जातं पश्चोत्तरं सहस्रं १००५, तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां द्वे सहने दशोत्तरे सप्तपष्टिभागत्रिंशद्भागानां सीमाविष्कम्भस्तानि त्रिंशत् , तद्यथा-द्वौ श्रवणौ 'जाव दो पुवासादा'इति यावच्छब्दादेवं पाठो द्रष्टव्य:-'दो धणिछा दो पुषभदवया दो रेवई | दो अस्सिणी दो कत्तिया दो मिगसिरा दो पुस्सादो मघा दो पुवफग्गुणीओ दो हत्था दो चित्ता दो अणुराहा दो मूला दो पुवासाढा'इति, तथाहि-एतानि नक्षत्राणि समक्षेत्राणि, तत एतेषां सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः परिपूर्णाः सप्तषष्टिभागाः प्रत्येकं चन्द्रयोगयोग्याः, तेन सप्तपष्टिस्त्रिंशता गुण्यते, जाते द्वे सहने दशोत्तरे इति, तथा तत्रतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येक त्रीणि सहस्राणि पश्चदशोत्तराणि सप्तषष्टित्रिंशदागानां सीमाविष्कम्भस्तानि द्वादश, तद्यथा-द्वे उत्तरे प्रोष्ठपदे 'जाव दो उत्तरासादा'इति यावच्छब्दकरणादेवं|
ॐॐॐॐॐॐॐॐ
॥१७८॥
Jain Education Interational
For Personal & Private Use Only
wwwbar og