SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 545455555 आइच्छो । अप्पेणवि वासेणं सम्म निप्फजए सस्सं ॥१॥" पृथिव्या उदकस्य तथा पुष्पानां फलानां च रसमादित्यसंवत्सरो ददाति तथा अल्पेनापि-स्तोकेनापि वर्षेण-वृष्ट्या सस्यं निष्पद्यते-अन्तर्भूतण्यर्थत्वातू सस्यं निष्पादयति, किमुक्तं भवति ?-यस्मिन् संवत्सरे पृथिवी तथाविधोदकसम्पर्कादतीव सरसा भवति उदकमपि परिणामसुन्दररसोपेतं परिणमते पुष्पानां च-मधूकादिसम्बन्धिनां फलानां च-चूतफलादीनां रसः प्रचुरः सम्भवति स्तोकेनापि वर्षेण धान्यं सर्वत्र सम्यक निष्पद्यते तमादित्यसंवत्सरं पूर्वर्षयः उपदिशन्ति । अभिवतिसंवत्सरलक्षणमाह-"आइश्चतेयततिया खणलवदिवसा उऊ है परिणमंति । पूरेइ निण्णथलए तमाहु अभिवडियं जाण ॥१॥" यस्मिन् संवत्सरे क्षणलवदिवसा ऋतव आदित्यतेजसा कृत्वा अतीव तप्ताः परिणमन्ते यश्च सर्वाण्यपि निम्नस्थानानि स्थलानि च जलेन पूरयति तं संवत्सरंजानीहि यथातं संवत्सरमभिवर्द्धितमाहुः पूर्वर्षय इति । तदेवं लक्षणसंवत्सर उक्तः, सम्प्रति शनैश्चरसंवत्सरमाह-तासणिच्छरें ख्यादि, तत्र शनैश्वरसंवत्सरोऽष्टाविंशतिविधः प्रज्ञप्तः, तद्यथा-अभिजित्-अभिजित्शनैश्चरसंवत्सरः श्रवणः-श्रवणशनैश्चरसंवत्सर, एवं यावदुत्तराषाढा-उत्तराषाढाशनैश्चरसंवत्सरः, तत्र यस्मिन् संवत्सरे अभिजिता नक्षत्रेण सह शनैश्चरो योगमुपादत्ते सोऽभिजित्शनैश्चरसंवत्सरः, श्रवणेन सह यस्मिन् संवत्सरे योगमुपादत्ते स श्रवणशनैश्चरसंवत्सरः, एवं सर्वत्र भावनी-'जं वेत्यादि, वाशब्दः प्रकारान्तरताद्योतनाय तत्सर्व-समस्तं नक्षत्रमण्डलं शनैश्चरो महाग्रहस्त्रिंशता संवत्सरैः समानयति एता-8 वान् कालविशेषस्त्रिंशद्वर्षप्रमाणः शनैश्चरसंवत्सरः॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायों दशमस्य प्राभृतस्य विंशसितमं प्राभृतप्राभृतं समाप्तं ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy