SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ SAGACASS494545453 न्दिवस्य एकपञ्चाशत्सप्तपष्टिभागाः, तत्र त्रयाणां शतानां सप्तविंशत्यधिकानां द्वादशभिभागो हियते, लब्धाः सप्तविंशतिरहोरात्राः, शेषास्त्रयस्तिष्ठन्ति, ततस्तेऽपि सप्तषष्टिभागकरणार्थ सप्तषष्ट्या गुण्यन्ते, जाते द्वे शते एकोत्तरे २०१, येऽपि च उपरितना एकपञ्चाशत्सप्तपष्टिभागास्तेऽपि तत्र प्रक्षिप्यन्ते, जाते द्वे शते द्विपञ्चाशदधिके २५२, तेषां द्वादशभिर्भागे है हृते लब्धा एकविंशतिः सप्तपष्टिभागाः, एतावन्नक्षत्रमासपरिमाणं, तथा अभिवर्द्धितसंवत्सरस्य परिमाणं त्रीणि रात्रि न्दिवशतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वापष्टिभागा रात्रिन्दिवस्य, तत्र त्रयाणां शतानां व्यशीत्यधिकानां द्वादशभिर्भागो हियते, लब्धा एकत्रिंशदहोरात्राः शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च चतुर्विशत्युत्तरशतभागकरणार्थ चतुविशत्युत्तरशतेन १२४ गुण्यन्ते, जातानि त्रयोदश शतानि चतुःषष्ट्यधिकानि १३६४, येऽपि चोपरितनाश्चतुश्चत्वारिं|शद् द्वाषष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशतभागकरणार्थ द्वाभ्यां गुण्यन्ते, जाताऽष्टाशीतिः, साऽनन्तरराशौ प्रक्षिप्यते, जातानि चतुर्दश शतानि द्विपञ्चाशदधिकानि १४५२, तेषां द्वादशभिर्भागो ह्रियते, लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानां, एतावदभिवर्द्धितमासपरिमाणं, तथा चोक्तम्-"आइच्चो खलु मासो तीसं अद्धं च सावणो तीसं । |चंदो एगुणतीसं बिसट्ठिभागा य बत्तीसं ॥१॥ नक्खत्तो खलु मासो सत्तावीसं भवे अहोरत्ता । अंसा य एक्कवीसा है। सत्तहिकएण छेएण ॥२॥ अभिवडिओ य मासो एक्कतीसं भवे अहोरत्ता। भागसयमेगवीसं चउवीससएण छेएणं ॥३॥" सम्प्रति एतैरेव पञ्चभिः संवत्सरैः प्रागुक्तस्वरूपं युग-पञ्चसंवत्सरात्मकं मासानधिकृत्य प्रमीयते, तत्र युग-प्रागुदितस्वरूपं यदि सूर्यमासैविभज्यते ततः षष्टिः सूर्यमासा युगं भवन्ति, तथाहि-सूर्यमासे सा स्त्रिंशदहोरात्रा युगे चाहोरात्रा ISHAHARIAN A Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy