________________
सूर्यप्रज्ञप्तिवृत्तिः ( मल० )
॥१६९॥
| मेव रात्रिन्दिवानां परिमाणमुक्तं, "तिन्नि अहोरत्तसया छावट्ठा भक्खरो हवइ वासो । तिन्नि सया पुण सट्टा कम्मो संवच्छरो होइ ॥ १ ॥ तिन्नि अहोरत्तसया चउपन्ना नियमसो हवइ चंदो । भागो य बारसेव य बावद्विकएण छेएण ॥ २ ॥ तिन्नि अहोरत्तसया सत्तावीसा य होंति नक्खत्ता । एक्कावन्नं भागा सत्तट्ठिकएण छेएण ॥ ३ ॥ तिन्नि अहोरत्तसया तेसीई चेव होइ अभिवडी । चोयालीसं भागा बावद्विकएण छेएण ॥ ४ ॥ एताश्चतस्रोऽपि गाथाः सुगमाः, इदं च प्रतिसंवत्सरं रात्रिन्दिवपरिमाणमग्रेऽपि वक्ष्यति परमिह प्रस्तावादुक्तं । सम्प्रति विनेयजनानुग्रहाय संवत्सरसङ्ख्यातो माससङ्ख्या प्रदर्श्यते - तत्र सूर्यसंवत्सरस्य परिमाणं त्रीणि शतानि षटूषष्ट्यधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरस्तत्र त्रयाणां शतानां षट्षष्ट्यधिकानां द्वादशभिर्भागो हियते, लब्धाः त्रिंशत् ३०, शेषाणि तिष्ठन्ति षटू, ते अर्द्ध क्रियते, जाता द्वादश, ततो लब्धमेकं दिवसस्यार्द्ध मेतावत्परिमाणः सूर्यमासः, तथा कर्म्मसंवत्सरस्य परिमाणं त्रीणि शतानि षष्ट्यधिकानि रात्रिन्दिवानां तेषां द्वादशभिर्भागे हृते लब्धास्त्रिंशदहोरात्रा एतावत्कर्म्ममासपरिमाणं, तथा चन्द्रसंवत्सरस्य परिमाणं त्रीण्यहोरात्रशतानि चतुष्पश्चाशदधिकानि द्वादश च द्वाषष्टिभागा अहोरात्रस्य तत्र त्रयाणां शतानां चतुष्पञ्चाशदधिकानां द्वादशभिर्भागे हृते लब्धा एकोनत्रिंशदहोरात्राः, शेषाः तिष्ठन्ति षट् अहोरात्राः, ते द्वाषष्टिभागकरणार्थ द्वाषष्ट्या गुण्यन्ते, जातानि त्रीणि शतानि द्विसप्तत्यधिकानि ३७२, येऽपि द्वादश द्वाषष्टिभागा उपरितनास्तेऽपि तत्र प्रक्षिप्यन्ते जातानि त्रीणि शतानि चतुरशीत्यधिकानि तेषां द्वादशभिर्भागे हृते लब्धा द्वात्रिंशत् द्वाषष्टिभागाः, एतावच्चन्द्रमासपरिमाणं । तथा नक्षत्रसंवत्सरस्य परिमाणं त्रीणि शतानि सप्तविंशत्यधिकानि रात्रिन्दिवानामेकस्य च रात्रि
Jain Education International
For Personal & Private Use Only
१० प्राभृते २० प्राभूतप्राभृते
युगसंवत्स
राः सू ५६ पर्वकरणानि
॥१६९॥
www.jainelibrary.org