SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 5453453 सरोऽभिवर्द्धितसंवत्सरश्च, तत्र नक्षत्रचन्द्राभिवर्द्धितसंवत्सराणां स्वरूपं प्रागेवोक्तमिदानी ऋतुसंवत्सरादित्यसंवत्सरयो स्वरूपमुच्यते-तत्र द्वे घटिके एको मुहूर्त्तस्त्रिंशन्मुहूर्त्ता अहोरात्रः पञ्चदश परिपूर्णा अहोरात्राः पक्षः द्वौ पक्षौ मासो है द्वादश मासाः संवत्सरो, यस्मिंश्च संवत्सरे त्रीणि शतानि षष्ट्यधिकानि परिपूर्णान्यहोरात्राणां भवति एष ऋतुसंवत्सरः, ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधानः संवत्सर ऋतुसंवत्सरः, अस्य चापरमपि नामद्वयमस्ति, तद्यथा-कर्मसंव-13 त्सरः सवनसंवत्सरः, तत्र कर्म-लौकिको व्यवहारस्तत्प्रधानः संवत्सरः कर्मसंवत्सरः, लोको हि प्रायः सर्वोऽप्यनेनैव & संवत्सरेण व्यवहरति, तथा चैतद्गतं मासमधिकृत्यान्यत्रोक्तम्-"कम्मो निरंसयाए मासो ववहारकारगो लोए । सेसा ओ संसयाए ववहारे दुक्करो चित्तुं ॥१॥" तथा सवनं-कर्मसु प्रेरणं 'पू प्रेरणे' इति वचनात् तत्प्रधानः संवत्सर सवनसंवत्सर इत्यप्यस्य नाम, तथा चोक्तं-"बे नालिया मुहुत्तो सही उण नालिया अहोरत्तो। पन्नरस अहोरत्ता पक्लो तीसं दिणा मासो ॥१॥ संवच्छरो उ बारस मासा पक्खा य ते चउबीसं । तिन्नेव सया सहा हवंति राइंदियार्ण तु ॥२॥ एसो उ कमो भणिओ निअमा संवच्छरस्स कम्मस्स । कम्मोत्ति सावणोत्ति य उउइत्तिय तस्स नामाणि ॥३॥" तथा यावता कालेन षडपि प्रावृडादयः ऋतवः परिपूर्णाः प्रावृत्ता भवन्ति तावान् कालविशेष आदित्यसंवत्सरः, उक्कं च"छप्पि उऊपरियट्टा एसो संवच्छरो उ आइच्चो" तत्र यद्यपि लोके षष्ट्यहोरात्रप्रमाणः प्रावृडादिक ऋतुः प्रसिद्धः तथापि परमार्थतः स एकषष्यहोरात्रप्रमाणो वेदितव्यः, तथैवोत्तरकालमव्यभिचारदर्शनात् , अत एव चास्मिन् संवत्सरे त्रीणि शतानि षट्पट्याधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संक्त्सरं भवति, तथा चान्यत्रापि पश्चस्वपि संवत्सरेणु यथोकन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy