________________
सूर्यप्रज्ञप्तिवृत्तिः (मस०) ॥१६॥
प्रक्षिप्यते, जाता चतुस्त्रिंशत् ३४, सा चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति ततस्तस्यार्द्ध क्रियते, जाताः सप्त- ४१०प्राभृते दश, ते त्रिंशता गुण्यन्ते, जातानि पञ्च शतानि दशोत्तराणि ५१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा अष्टौ ८, शेषा- २०प्राभृतस्तिष्ठन्ति चतुर्दश १४, ततश्छेद्यच्छेदकराश्योरट्टेनापवर्तना, लब्धाः सप्त एकत्रिंशद्भागाः, आगतं तृतीयं पर्व चरमे
प्राभृते ऽहोरात्रे अष्टौ मुहूर्त्तानेकस्य सप्त एकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति । चतुर्थपर्वजिज्ञासायां चतुष्को ध्रियते, स
| युगसंवत्स किल कृतयुग्मराशिरिति न किमपि तत्र प्रक्षिप्यते, चत्वारश्चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति, ततस्तेऽर्द्ध क्रियन्ते,
| राःसू ५६
पर्वकरणानि जातौ द्वौ, तौ त्रिंशता गुण्येते, जाता षष्टिः ६०, तस्या द्वाषट्या भागो ह्रियते, भागश्च न लभ्यते इति छेद्यच्छेदकराश्योरद्धेना|पवर्त्तना, जातास्त्रिंशदेकत्रिंशद्भागाः, आगतं चतुर्थ पर्व चरमेऽहोरात्रे मुहूर्तस्य त्रिंशतमेकत्रिंशद्भागानतिक्रम्य समाप्ति
गच्छतीत्येवं शेषेष्वपि पर्वसु भावनीयं । चतुर्विशत्यधिकशततमपर्वजिज्ञासायां चतुर्विशत्यधिकं शतं ध्रियते, तस्य किल चतुभिभांगे हृते न किमपि शेषमवतिष्ठते इति कृतयुग्मोऽयं राशिः, ततोऽत्र न किमपि प्रक्षिप्यते, ततश्चतुर्विशत्यधिकेन शतेन भागो हियते, जातोराशिनिर्लेपः, आगतं परिपूर्ण चरममहोरात्र भुक्त्वा चतुर्विशतितमं पर्व समाप्तिं गतमिति । तदेवं यथा पूर्वाचायरिदमेव पर्वसूत्रमवलम्ब्य पर्वविषयं व्याख्यानं कृतं तथा मया विनेयजनानुग्रहाय स्वमत्यनुसारेणोपदर्शितं, सम्मति प्रस्तुतमनुश्रियते-तत्र युगसंवत्सरोऽभिहितः, साम्प्रतं प्रमाणसंवत्सरमाह
॥१६८॥ ता पमाणसंवच्छरे पंचविहे पं०, तं०-नक्खत्ते चंदे उड़ आइच्चे अभिवहिए (सूत्रं ५७)॥ --'पमाणे त्यादि, प्रमाणसंवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-नक्षत्रसंवत्सर ऋतुसंवत्सरश्चन्द्रसंवत्सरः आदित्यसंव
Jain Education International
For Personal & Private Use Only
www
b
rary.org