SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 545 स्यार्द्ध क्रियते, कृत्वा च त्रिंशता गुण्यते, गुणयित्वा च द्वाषया भज्यते, भक्ते सति यल्लब्धं तान् मुहान् जानीहि, लब्धशेष मुहूर्तभागान् , तत एवं स्वशिष्येभ्यः प्ररूपय, तद्विवक्षितं पर्व चरमे अहोरात्रे सूर्योदयात्तावत्सु मुहूर्तेषु तावत्सु |च मुहूर्तभागेषु अतिक्रान्तेषु परिसमाप्तमिति, एष करणगाथाक्षरार्थः। भावना त्वियम्-प्रथम पर्व चरमेऽहोरात्रे कति मुहूर्त्तानतिक्रम्य समाप्तमिति जिज्ञासायामेको ध्रियते, अयं किल कल्योजो राशिरित्यत्र त्रिनवतिः प्रक्षिप्यते, जाता चतुनवतिः, अस्य चतुर्विंशत्यधिकेन शतेन भागो हर्त्तव्यः, स च भागो न लभ्यते राशेः स्तोकत्वात् , ततो यथासम्भवं कर-13 णलक्षणं कर्त्तव्यं, तत्र चतुर्नवतेरर्द्ध क्रियते, जाता सप्तचत्वारिंशत् ४७, सा त्रिंशता गुण्यते, जातानि चतुर्दश शतानि |दशोत्तराणि १४१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहूर्त्ता २२, शेषा तिष्ठति षट्चत्वारिंशत् ४६, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्तना, लब्धास्त्रयोविंशतिरेकत्रिंशद्भागाः३, आगतं प्रथमं पर्व चरमे अहोरात्रे द्वाविंशति मुहूर्त्तान् एकस्य च मुहूर्तस्य त्रयोविंशतिमेकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति । द्वितीयपर्वजिज्ञासायां द्विको ध्रियते, स किल द्वापरयुग्मराशिरिति द्वाषष्टिः प्रक्षिप्यते, जाता चतुःषष्टिः, सा च चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति ततस्तस्यार्द्ध क्रियते, जाता द्वात्रिंशत् , सा त्रिंशता गुण्यते, जातानि नव शतानि षष्ट्यधिकानि ९६०, तेषां द्वापध्या भागो हियते, लब्धाः पञ्चदश मुहूर्ताः१५, पश्चादवतिष्ठते त्रिंशत्,ततश्छेद्यच्छेदकराश्योरट्टेनापवर्तना, लब्धाः पञ्चदश एकत्रिंशद्भागाः १५, आगतं द्वितीयं पर्व चरमेऽहोरात्रे पञ्चदश मुहूर्त्तानेकस्य च मुहूर्तस्य पञ्चदश एकत्रिंशद्भागानतिक्रम्य [द्वितीयं पर्व ] समाप्तमिति । तृतीयपर्वजिज्ञासायां त्रिको ध्रियते, स किल त्रेतौजोराशिरिति तत्रैकत्रिंशत् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy