SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ शोध्यानि । 'अट्टसए'त्यादि, अष्टौ शतान्येकोनविंशानि-एकोनविंशत्यधिकानि मुहूर्तानामकस्य च मुहूर्तस्य चतुर्विंशतिर्दापष्टिभागा एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इति पुष्यस्य शोधनकं, एतावता परिपूर्ण एको नक्षत्रपर्यायः शुक्ष्यतीति तात्पर्यार्थः, एष करणगाथाक्षरार्थः । सम्प्रतिकरणभावना क्रियते-तत्र कोऽपि पृच्छति प्रथमं पर्व कस्मिन् , सूर्यनक्षत्रे परिसमाप्तिमुपैति !, तत्र ध्रुवराशिस्त्रयस्त्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य द्वौ द्विषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागा इत्येवंरूपो ध्रियते ३३॥ २॥३४॥धृत्वा चैकेन गुण्यते, एकेन गुणितं तदेव भवति, ततः पुष्यशोधनकमेकोनविंशतिर्मुहर्ताः एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशसप्तषष्टिभागा इत्येवंप्रमाणं शोध्यते, तत स्थितास्त्रयोदश मुहूर्ता एकस्य च मुहूर्तस्य एकविंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः। १३ । २१ । १, तत आगतमेतावदश्लेषानक्षत्रस्य सूर्यो भुक्त्वा प्रथमं पर्व श्रावणमासभाव्यमावास्यालक्षणं परिसमापयतीति । द्वितीयपर्वचिन्तायां स एव ध्रुवराशिः ३३ । २ । ३४ द्वाभ्यां गुण्यते, जाता षट्षष्टिर्मुहूर्ताः एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः। ६६।५।१, एतस्माद् यथोदितप्रमाणं १९ । ४३ । ३३ पुष्यशोधनकं शोध्यन्ते, स्थिताः पश्चात् षट्चत्वारिंशन्मुहूर्ताः त्रयोविंशति षिष्टिभागाः मुहूर्तस्य एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः ४६ । २३ । ३५ । ततः पञ्चदशभिर्मुहूत्रश्लेषा |शुद्धा त्रिंशता मघा, स्थितः पश्चादेको मुहूर्तः तत आगतं द्वितीयं पर्व पूर्वफाल्गुनीनक्षत्रस्यैकं मुहूर्तमेकस्य च मुहूर्तस्य। त्रयोविंशतिं द्वापष्टिभागानेकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टिभागान् भुक्त्वा सूर्यः परिसमाप्तिं नयति । तृतीय Jain Education Interrarona For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy