________________
सूर्यप्रज्ञप्तिवृत्तिः (मल.) ॥१६५॥
१० प्राभृते २० प्राभृत। प्राभृते युगसंवत्सराः सू ५६ पर्वकरणानि
भागाः १९।४३ । ३३ । एतद्-एतावत्प्रमाणं पुष्यशोधनक, कथमेतावतः पुष्यशोधनकस्योत्पत्तिरिति चेत्, उच्यते, इह पाश्चात्ययुगपरिसमाप्तौ पुष्यस्य त्रयोविंशतिः सप्तषष्टिभागा गताश्चतुश्चत्वारिंशदवतिष्ठन्ते, ततस्ते मुहूर्तानयनाथै त्रिंशता| गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि १३२०, तेषां सप्तषष्ट्या भागो हियते, लब्धा एकोनविंशतिर्मुहूर्ताः | १९, शेषास्तिष्ठति सप्तचत्वारिंशत् ४७, सा द्वाषष्टिभागानयनार्थ द्वाषष्ट्या गुण्यते, जातान्येकोनत्रिंशत् शतानि चतुईशोत्तराणि २९१४, तत एतेषां सप्तषष्ट्या भागो हियते, लब्धास्त्रिचत्वारिंशत् द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागा इति । 'उगुयालसय'मित्यादि, एकोनचत्वारिंश-एकोनचत्वारिंशदधिकं मुहूर्तशतमुत्तराफाल्गुनीनां-उत्तराफाल्गुनीपर्यन्तानां नक्षत्राणां शोध्यम् १३९, द्वे शते एकोनषष्टे-एकोनषष्ट्यधिके विशाखासु-विशाखापर्यन्तेषु शोध्ये २५९, चत्वारि मुहर्तशतानि नवोत्तराणि उत्तराषाढानां-उत्तराषाढापर्यन्तानां नक्षत्राणां शोध्यानि ४०९, 'सवत्थे'त्यादि, एतेषु सर्वेष्वपि शोधनेषु यत्पुष्यस्य मुहूर्तेभ्यः शेष-त्रिचत्वारिंशन्मुहूर्तस्य द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत्सप्तपष्टिभागा इति तत्प्रत्येकं शोधनीयं, तथा अभिजितश्चत्वारि मुहूर्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि षट् द्वापष्टिभागा मुहूर्तस्यैकस्य च द्वापष्टिभागस्य द्वात्रिंशपिकाभागाः-सप्तपष्टिभागा इति शोध्यम्, |एतावता पुष्यादीन्यभिजिदन्तानि नक्षत्राणि शुभयन्तीतिभावार्थः । तथा 'उगुणत्तरे'त्यादि, एकोनसप्ततानि-एकोनसप्तत्यधिकानि पञ्च मुहूर्त्तशतानि उत्तरभाद्रपदानां-उत्तरभाद्रपदान्तानां शोध्यानि ५६९, तथा सप्तशतान्येकोनविंशानिएकोनविंशत्यधिकानि ७१९ रोहिणीपर्यन्तानां शोध्यानि, पुनर्वस्वन्ते-पुनर्वसुपर्यन्ते अष्टौ शतानि नवोत्तराणि ८०९
SABHABINDA
| ॥१६५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org