________________
यस्वचनात् , ततः चाप चतुर्विंशत्यधिशारर्द्धना
KERABHASHA
पर्वणा किं लभामहे ?, राशित्रयस्थापना-१२४ । ५।१। अत्रान्त्येन राशिना मध्यराशिगुण्यते, जातः स तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात् , ततः चतुर्विशत्यधिकेन पर्वशतेन भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागो न लभ्यते, लब्धा एकस्य सूर्यनक्षत्रपर्यायस्य पञ्च चतुर्विंशत्यधिकशतभागाः, तत्र नक्षत्राणि कुर्म इत्यष्टादशभिः शतैः त्रिंशदधिकैः सप्तषष्टिभागैः पञ्च गुणयिष्याम इति गुणकारच्छेदराश्योर॰नापवर्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिौषष्टिः ६२, तत्र नवभिः शतैः पञ्चदशोत्तरैः पञ्च गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५, एतानि मुहूर्त्तानयनार्थ त्रिंशता गुण्यन्ते, जातमेकं लक्षं सप्तत्रिंशत्सहस्राणि द्वे शते पञ्चाशदधिके १३७२५०, छेदराशिश्च द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशद|धिकानि ४१५४, तैर्भागो हियते लब्धास्त्रयस्त्रिंशन्मुहूर्ताः ३३, शेषं तिष्ठत्यष्टषष्ट्यधिकं शतं १६८, एतद् द्वापष्टिभागानयनार्थ द्वाषष्ट्या गुणयितव्यमिति गुणकारच्छेदराश्योषष्ट्याऽपवर्तना, जातो गुणकारराशिरेकरूपश्छेदराशिः सप्तषष्टिरूपः, एकेन च गुणितं तदेव भवति, ततोऽष्टषश्यधिकमेव शतं जातं, तस्य सप्तषष्ट्या भागो ह्रियते, लब्धौ द्वौ द्वाषष्टिभागौ, एकस्य च द्वापष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा इति । 'इच्छापवे'त्यादि, इच्छाविषयं यत्पर्व-पर्वसङ्ख्यानं तदिच्छापर्व
तद्गुणो-गुणकारो यस्य ध्रुवराशेस्तस्मात् , किमुक्तं भवति ?-ईप्सितं यत्पर्व तत्सङ्ख्यया गुणितात् ध्रुवराशेः पुष्यादीनां ४ नक्षत्राणां क्रमश:-क्रमेण शोधनं कुर्याद्यथा दिष्ट-यथा कथितमनन्तज्ञानिभिः, कथं कथितमित्याह-'उगवीसं चे'त्यादि
गाथा, एकोनविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य त्रयस्त्रिंशचूर्णिका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org