________________
सूर्यप्रज्ञशिवृत्तिः ( मल० )
॥१६६॥
पर्वचिन्तायां स एव ध्रुवराशिः । ३३ । २ । ३४ त्रिभिर्गुण्यते जाता नवनवतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य सप्त द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः ९९ । ७ । ३५, एतस्मात्पुष्यशोधनं १९ । ४३ । ३३ शोध्यन्ते, स्थिताः पश्चादेकोनसप्ततिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य षड्विंशतिद्वषष्टिभागा एकस्य च द्वापष्टिभागस्य द्वौ सप्तषष्टिभागी ६९ । २६ । २, ततः पञ्चदशभिर्मुहूत्रश्लेषा त्रिंशता मघा त्रिंशता पूर्वफाल्गुनी, स्थिताः पश्चात् चत्वारो मुहूर्त्ताः आगतं तृतीयं पर्व भाद्रपदामावास्यारूपमुत्तरफाल्गुनी नक्षत्रस्य चतुरो मुहूर्त्तानेकस्य च मुहूर्त्तस्य पविंशतिं द्वाषष्टिभागान् एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वा सूर्यः परिसमापयति, एवं शेषपर्वस्वपि सूर्यनक्षत्राणि वेदितव्यानि । तत्र युग पूर्वार्द्ध भाविद्वाषष्टिपर्वगतसूर्यनक्षत्रसूचिका इमाः पूर्वाचार्योपदर्शिता गाथा: - "सप्पभग अज्जमदुगं हत्थो चित्ता विसाह मित्तो य । जेट्ठाइगं च छक्कं अजाभिवुट्टीदु पूसासा ॥ १ ॥ छक्कं च कत्तियाई पिइभग अज्जमदुगं च चित्ता य । वाउ विसाहा अणुराह जेड आउं च वीसुदुगं ॥ २ ॥ सवण धनिट्ठा अजदेव अभिवुडी दु अस्स जमबहुला । रोहिणि सोमदिइदुगं पुरसो पिइ भगजमा हत्थो ॥ ३ ॥ चित्ता य जिट्टवज्जा अभिईअंताणि अह रिक्खाणि । एए जुगपुबद्धे बिस पिधेसु रिक्खाणि ॥ ४ ॥” एतासां व्याख्या - प्रथमस्य पर्वणः समाप्तौ सूर्यनक्षत्रं सर्पः- सर्पदेवतोपलक्षिता अश्लेषा १, द्वितीयस्य भगो-भगदेव तोपलक्षिताः पूर्व फाल्गुन्यः २ ततोऽर्यमद्विकमिति तृतीयस्य पर्वणोऽर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः ३ चतुर्थस्याप्युत्तरफाल्गुन्यः ४ पञ्चमस्य हस्तः ५ षष्ठस्य चित्रा ६ सप्तमस्य विशाखा ७ अष्टमस्य मित्रो - मित्रदेवतोपलक्षिता अनुराधा ८ ततो ज्येष्ठादिकं षङ्कं क्रमेण वक्तव्यम्, तद्यथा - नवमस्य ज्येष्ठा ९ दशमस्य मूलं १०
Jain Education International
For Personal & Private Use Only
१० प्राभृते २० प्राभृतप्राभृते युगसंवत्सराः सू ५६ पर्वकरणानि
॥१६६॥
www.jainelibrary.org